________________
परिशिष्टम्
योनियन्त्रसमुत्पन्नाः सुसूक्ष्मा जन्तुराशयः ।
पीड्यमाना विपद्यन्ते यत्र तन्मैथुनं त्यजेत् ॥ ७९ ॥ योनि । योनिरेव यन्त्रम् , तत्रोत्पन्ना संमूच्छिमा अतिसूक्ष्मा जन्तूसमूहाः यत्र विपद्यन्ते । शेष स्पष्टम् ।। ७९ ।। वात्सायनः कामशास्त्रकर्तापि जन्तुसद्भावमाह--
रक्तजाः कृमयः सूक्ष्मा मृदुमध्याधिशक्तयः ।
सु कण्डूतिं जनयन्ति तथाविधाम् ।। ८० ॥ रक्त । रक्तोद्भवाः कृमयो जन्तुविशेषाः । मृदुशक्तयो मृद्रीमल्पां मध्यशक्तयो मध्यमाम् अधिशक्तयोऽधिकां कण्डूतिं जन्मवमसु योनिषु जनयन्ति तथाविधाम् ।। ८० ॥
स्त्रीसम्भोगेन यः कामज्वरं प्रतिचिकीर्षति ।
स हुताशं घृताहुत्या विध्यापयितुमिच्छति ।। ८१ ॥ 1 श्लोकोऽयं वात्सायनविरचिते कामशास्त्र क्वापि नोपलभ्यते, अपि तु तस्य जयमङ्गलाटीकायामुद्धतो दृश्यते । किन्तु कोकोकविरचिते रतिरहस्ये इत्थमुपलभ्यते
" रक्तजाः कृमयः सूक्ष्मा मृदुमध्योग्रशक्तयः। स्मरसद्मनि कण्डूतिं जनयन्ति यथावलम् ॥ ३॥८॥" 2 “स्मरज्वलनसम्भ्रान्तो यः प्रतिकारमिच्छति । मैथुनेन स दुर्बुद्धिराज्येनाऽग्नि निषेधति ॥७००॥" इति ज्ञानार्णवे ॥
॥१३६४॥
अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये द्वितीयः प्रकाशः ॥१३६४॥
HEHECKHERENCYCHEMERIENCHEMEECHEERENCERCIRCHES
wwwwwww
Jain Education
902nal
For Private & Personal Use Only
Cotivww.jainelibrary.org