SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ षष्ठं परिशिष्टम् ॥ १३६२ ॥ Jain Education संबन्ध्यपि निगृह्येत चौर्यान्मण्डिकवन्नृपैः । चौरोऽपि त्यक्तचौर्यः स्यात् स्वर्गभाग् रौहिणेयवत् ॥ ७२ ॥ संबं० । नृपैश्चौर्यात् सम्बन्ध्यपि निगृह्यते ॥ ७२ ॥ 'दूरे परस्य सर्वस्वमपहर्तुमुपक्रमः । उपाददीत नादत्तं तृणमात्रमपि क्वचित् ॥ ७३ ॥ दूरे० । आस्तां परस्य सर्वस्वमपहर्तुम् उपक्रम आरम्भो दूरेऽस्तु, किन्तु तृणमात्रमपि सुधीरदत्तं नाददीत न गृह्णीयात् क्वचित् ॥ ७३ ॥ परार्थग्रहणे येषां नियमः शुद्धचेतसाम् । अभ्यायान्ति श्रियस्तेषां स्वयमेव स्वयंवराः ॥ ७४ ॥ परा० । येषां परार्थग्रहणे नियमस्तेषां स्वयंवराः श्रियोऽभिमुखमायान्ति स्वयंवरकन्या इव ॥ ७४ ॥ अनर्था दूरतो यान्ति साधुवादः प्रवर्तते । स्वर्गसौख्यानि ढौकन्ते स्फुटमस्तेयचारिणाम् ॥ ७५ ॥ अ० । अयं साधुरिति प्रवादः साधुवादः श्लाघा । अस्तेयं व्रतं चरन्तीत्येवंशीला अस्तेयचारिणस्तेषाम् ॥ ७५ ॥ 1 "आस्तां परधनादित्सां कर्तुं स्वप्नेऽपि धीमताम् । तृणमात्रमपि ग्राह्यं नादत्तं दन्तशुद्धये ॥ ५९०|| " इति ज्ञानार्णवे ॥ For Private & Personal Use Only | अवचूर्णि सहिते योगशास्त्र. स्याद्य प्रकाश चतुष्टये द्वितीयः प्रकाशः ।। १३६२ ॥ 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy