________________
।। १३६१ ।।
Jain Education Inte
Iceeee
एक० । एकस्य मार्यमाणस्य एक क्षणं दुःखं जायते । धने पुनर्हृते सपुत्रपौत्रस्य यावज्जीवं दुःखं जायते ॥ ६८ ॥ चौर्यपापमस्येह वध चन्धादिकं फलं ।
जायते परलोके तु फलं नरकवेदना ।। ६९॥
चौर्य० । चौर्यपापमेव द्रमस्तस्य इहलोके वध-बन्धादिकं फलम् । शेषं स्पष्टम् ॥ ६९ ॥
दिवसे वा रजन्यां वा स्वप्ने वा जागरेऽपि वा ।
सशल्य इव चौर्येण नैति स्वास्थ्यं नरः क्वचित् ॥ ७० ॥
दिव० । स्वप्ने स्वापे जागरे निद्राया अभावेऽपि चौर्येण क्वचिदपि स्थाने स्वास्थ्यं न एति सशल्य इव || ७० ॥
मित्र-पुत्र - कलत्राणि भ्रातरः पितरोऽपि हि ।
संसजन्ति क्षणमपि न म्लेच्छैरिव तस्करैः ॥ ७१ ॥
मित्र० । पितृतुल्याः पितरः, पिता च पितरश्च पितरः, एकशेषः । एते तस्करैः सह न संसजन्ति न मिलन्ति पापभयात्, इव यथा म्लेच्छैः सह कोऽपि न मिलति ॥ ७१ ॥
1 " भ्रातरः पितरः पुत्राः स्वकुल्याः मित्रबान्धवाः । संसर्गमपि नेच्छन्ति क्षणार्धमपि तस्करैः ॥ ५८१||" इति ज्ञानार्णवे ||
For Private & Personal Use Only
10
॥ १३६१ ॥
www.jainelibrary.org