SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ षष्ठं परिशिष्टम् ॥ १३६० ॥ Jain Education अथ तृतीयमणुव्रत माह - दौभाग्यं प्रेष्यतां दास्यमङ्गच्छेदं दरिद्रताम् । अदत्तात्तफलं ज्ञात्वा स्थूलस्तेयं विवर्जयेत् ॥ ६५ ॥ दौर्भा० । उद्वेगकररूपत्वम्, प्रेष्यतां परगृहे कर्मकरत्वम्, दास्यम् अङ्कवातादिना परायत्तशरीरताम् अङ्गच्छेदम्, दरिद्रतां निर्धनत्वं च । एतत् अदत्तं यदात्तं अदत्तगृहीतं तस्य फलं ज्ञात्वा स्थूलस्तेयं विवर्जयेत् ॥ ६५ ॥ पतितं विस्मृतं नष्टं स्थितं स्थापितमाहितम् । अदत्तं नाददीत स्वं परकीयं क्वचित् सुधीः ॥ ६६ ॥ पतितं । मार्ग वाहनादेर्भष्टम्, विस्मृतं कापि मुक्तम्, नष्टं गतम्, स्थितं स्वामिपार्श्वे, स्थापितम् न्यासीकृतम्, आहितं निधीकृतम्, एतत् परकीयं स्वं धनम् अदत्तं नाददीत न गृह्णीयात् सुधीः कापि ॥ ६६ ॥ अयं लोकः परलोको धर्मो धैर्यं धृतिर्मतिः । मुष्णता परकीयं स्वं मुषितं सर्वमप्यदः || ६७ ॥ अयं । परकीयं स्वं धनं मुष्णता अपहरता पुंसा अयं लोकः इदं जन्म, परलोको जन्मान्तरम्, सन्तोषः, मतिः सत्यासत्यविवेकः, एतत् सर्वमपि तेन मुषितं निर्गमितम् ॥ ६७ ॥ एकस्यैकं क्षणं दुःखं मार्यमाणस्य जायते । सपुत्रपौत्रस्य पुनर्यावज्जीवं हृते धने ॥ ६८ ॥ For Private & Personal Use Only धर्मः पुण्यम्ं, धृतिः अवचूर्णि सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये द्वितीयः प्रकाशः ॥ १३६० ॥ 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy