________________
॥१३५९॥
HERCHCHEHCHHBHBHISHEHOREHICHRISHAKTEHSIERREHENSTEISHE
अल्पादपि मृषावादात् रौरवादिषु संभवः ।।
अन्यथा वदतां जैनी वाचं त्वहह का गतिः।। ६२ ॥ - अल्पा० । मृषावादात् रौरवादिनरकेषु स्तोकादपि संभव उत्पत्तिः स्यात् । रौरवग्रहण लोकप्रसिद्धथा ज्ञेयम् । जैनी जिनसम्बन्धिनी वाचम् अन्यथा विपरीततया वदतां जनानाम् , अहह खेदे का गतिः? नरकादप्यधिकेऽपि सम्भाव्यते ।। ६२ ॥
ज्ञानचारित्रयोर्मुलं सत्यमेव वदन्ति ये ।
धात्री पवित्रीक्रियते तेषां चरणरेणुभिः॥ ६३ ॥ ज्ञान । ज्ञानक्रिययोर्मूलं सत्यमेव ये बदन्ति, ज्ञानग्रहणेन दर्शनमपि लभ्यते, तद् विना ज्ञानस्याप्यज्ञानात् । शेष स्पष्टम् ॥ ६३ ॥
HCHAIRMERHIBHEHICHCHHEMEHEKHERCISHEIGHBHSHBHEHERE
अलीकं ये न भाषन्ते सत्यवतमहाधनाः।
नापराद्धमलं तेभ्यो भूतप्रेतोरगादयः ॥ ६४ ॥ अली । सत्यव्रतमेव महाधनं येषां ते अलीकं न भाषन्ते, तान् अपकर्तुं न अलं समर्थाः स्युः भूतोपलक्षिता व्यन्तराः, प्रेताः पितरो ये स्वसंबन्धिमनुष्यान् पीडयन्ति, उरगाः सर्पाः, आदेाघाद्याः ॥ ६४ ।।
॥१३५९॥
1 “सतां विज्ञाततत्त्वानां सत्यसीमावलम्बिनाम् । चरणस्पर्शमात्रेण विशुध्यति धरातलम् ॥ ५५३ ॥” इति ज्ञानार्णवे ॥
Jain Education in 70 nal
For Private & Personal use only
Jww.jainelibrary.org