________________
षष्ठं
परिशिष्टम्
अवचूर्णिसहिते योगशास्त्र
स्याद्य
HEREMEHEHEREHREMIERRENKERSHEHREEKERENCHEHICHRISHCHEHEREIGRE
निगोदेष्वथ तिर्यक्षु तथा नरकवासिषु ।
उत्पद्यन्ते मृषावादप्रसादेन शरीरिणः ॥ ५९ ॥ निगो० । मृषावादप्रसादाद् निगोदेषु अनन्तकायादिषु तिर्यक्षु तिर्यग्योनिषु नरकवासिषु नारकेषु शरीरिणो जीवा | उत्पद्यन्ते ॥ ५९॥
ब्रूयाद् मियोपरोधाद्वा नासत्यं कालिकार्यवत् ।
यस्तु ब्रूते स नरकं प्रयाति वसुराजवत् ॥६०॥ ब्रूया० । भिया मरणादिभयात् , उपरोधात् दाक्षिण्याद्वा असत्यं न ब्रूयात् । यः पुनः ब्रूते स वसुराजवन्नरकं प्रयाति ॥६०॥
न सत्यमपि भाषेत परपीडाकरं वचः ।
लोकेऽपि श्रूयते यस्मात् कौशिको नरकं गतः।। ६१॥ न स० । सत्यमपि परपीडाकरं वचो न भाषेत । लोकरूढ्या सत्यमपि परमार्थतः परपीडाकरत्वादसत्यम् । लोकेऽप्येवं श्रूयते-कौशिकारव्यो लौकिकऋषिः सत्यवादित्वख्यातिमानपि स्वाश्रमासन्ननिकुञ्ज प्रविष्टांस्तस्कारान् राजपुरुषेभ्यः प्रश्नेऽकथयत् , ते च राजपुरुख़त्वा व्यापादिताः । तत्पापात् स नरकं ययौ ॥ ६१ ॥
1 “प्राप्नुवन्त्यतिघोरेषु रौरवादिषु सम्भवम् । तियक्ष्वथ निगोदेषु मृपावाक्येन देहिनः ॥ ५४९ ।।......... परोपरोधादपि निन्दितं वचो ब्रुवन्नरो गच्छति नारकीपुरीम् । अनिन्द्यवृत्तोऽपि गुणी नरेश्वरो वसुर्यथाऽगादिति लोकविश्रुतम् ॥ ५७१ ॥” इति शानार्णवे ।।
REHEREKEHOSHHEHEREHEHREMEMOREMEHEKSHEHENEMIERRHOICHOTE
प्रकाशचतुष्टये द्वितीयः प्रकाशः
॥ १३५८ ।।
Jain Education In
al
For Private & Personal use only
Iww.jainelibrary.org