SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ ॥१३५७॥ PETECREECECRETCHEECHEHREEHEREHEHEREIVE सर्वलोकविरुद्धं यद् यद्विश्वसितघातकम् । यद्विपक्षश्च पुण्यस्य न वदेत्तदसूनृतम् ॥ ५५ ॥ सर्व० । यत् पुण्यस्य विपक्षो वैरिभूतं तदसूनृतमसत्यं बुधो न वदेत् ॥ ५५ ।। असत्यतो लघीयस्त्वमसत्याद्वचनीयता । अधोगतिरसत्याच तदसत्यं परित्यजेत् ॥५६॥ अस० । असत्याल्लघुत्वं वचनीयता चेति द्वे ऐहिके फले, अधोगतिः पारलौकिकं फलं भवेत् । तदसत्यं वर्जयेत् ॥ ५६ ।। असत्यवचनं प्राज्ञः प्रमादेनापि नो वदेत् ।। श्रेयांसि येन भज्यन्ते वात्ययेव महाद्रुमाः ।। ५७ ॥ असत्य० । प्राज्ञः प्रमादेनापि अज्ञान-संशयादिनाप्यसत्यं न वदेत् येन श्रेयांसि मङ्गलानि भज्यन्ते भङ्गं यान्ति वात्ययेव टुमाः ॥ ५७॥ असत्यवचनाद्वैरविषादामत्ययादयः । प्रादुःषन्ति न के दोषाः कुपथ्याद् व्याधयो यथा ॥ ५८॥ अस० । असत्यवचनात् वैरम् , विषादः पश्चात्तापः, अप्रत्ययोऽविश्वासः । आदिशब्दादन्येऽपि के के दोषा न प्रादुःषन्ति ? न प्रकटीभवन्ति ? अपि तु सर्वेऽपि ॥ ५८ ॥ 1 “वैरा-ऽऽयासा-प्रत्यय-विषाद-कोपादयो महादोषाः । जन्यन्तेऽनृतवचसा कुभोजनेनेव रोगगणाः ॥५६४॥” इति ज्ञानार्णवे ।। For Private & Personal Use Only HEREISACRICHISHEMEHEKSHIMBIRHIGHSHOHORICHICHRISHCHEICHE ॥१३५७॥ Jain Education nal www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy