SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ षष्ठं परिशिष्टम् - . ॥ १३५४ ॥ Jain Education 'eeeeeeee दशमासांस्तु तृप्यन्ति वराह - महिषामिषैः । शश - कूर्मयोस्तु मांसेन मासानेकादशैव तु ॥ ४५ ॥ दश । वह आरण्यशूकरः । शेषं सुगमम् ॥ ४५ ॥ संवत्सरं तु गव्येन पयसा पायसेन तु । वार्षीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥ ४६ ॥ " [ मनुस्मृतौ ३।२६६ - २७१ ] संव० । गव्येन पयसा पायसेन चेति सम्बन्धात् न प्रस्तुतेन मांसेनेति श्रुतेरुक्तेः पयसो विकारः पायसं दध्यादि । अन्ये त्वेवमाहुः - गव्येन मांसेन पयसा पायसेन वा संवत्सरं पितरः प्रीयन्ते । वार्षीणसो जरच्छागः । शेषं स्पष्टम् ॥ ४६ ॥ इति स्मृत्यनुसारेण पितॄणां तर्पणाय या । मूढैर्विधीयते हिंसा सापि दुर्गतिहेतवे ॥ ४७ ॥ इति॰ । एवं स्मृत्यनुसारेण मूढैः पितॄणां तर्पणाय या हिंसा विधीयते साऽपि दुर्गतिहेतत्रे एत्र स्यात् ॥ ४७ ॥ यो भूतेष्वऽभयं दद्यात् भूतेभ्यस्तस्य नो भयम् । यादृग् वितीर्यते दानं तागासाद्यते फलं ॥ ४८ ॥ यो भू० । सुगमः । वितीर्यते दीयते ॥ ४८ ॥ For Private & Personal Use Only proceeddere अवचूर्णिसहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये द्वितीयः प्रकाशः ॥ १३५४ ॥ 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy