________________
॥१३५५॥
HOMCHHORIGHEROICERHICHRISTRISHCHRISTORICHCHONDROE
कोदण्ड-दण्ड-चक्रा-सि-शूल-शक्तिधराः सुराः ।
हिंसका अपि हा कष्टं पूज्यन्ते देवताधिया ।। ४९ ॥ कोदंड० । कोदण्डधरः शंकरः । दण्डधरो यमः । चक्रासिधरो विष्णुः । शूलधरः शिवः । शक्तिधरः कुमारः। हा कष्टमिति अतिशयनिर्वेदे । एवंविधा हिंसका अपि देवा देवताधिया यत् पूज्यन्ते तन्महत् कष्टम् ।। ४८ ॥
मातेव सर्वभूतानामहिंसा हितकारिणी।
अहिंसैव हि संसारमरावमृतसारणिः ।। ५०॥ मातेव० । अमृतसारणिरमृतकुल्या। शेषं सुगमम् ॥ ५० ॥
अहिंसा दुःखदावामिप्रावृषेण्यघनावली ।
भवभ्रमिरुगा नामहिंसा परमौषधी ॥ ५१ ॥ अहिं० । प्रावृषि वर्षासु जाता प्रावृषेण्या घनावली मेघमाला । स्पष्टः ॥ ५१ ॥
दीर्घमायुः परं रूपमारोग्यं श्लाघनीयता।
अहिंसायाः फलं सर्व किमन्यत् कामदैव सा ॥ ५२ ॥ 1 "शूल-चक्रा-ऽसि-कोदण्डैरुयुक्ताः सत्त्वखण्डने । येऽधमास्तेऽपि निस्त्रिंशैर्देवत्वेन प्रकल्पिताः ॥५८० ॥"-इति ज्ञानार्णवे ।।
NEEHEHEREMOHABHISHERBREAKERHIGHEHRISHCHECHERCHIKSHBHICHK
क॥१३५५॥
Jain Education in
For Private & Personal Use Only
क
ww.jainelibrary.org