SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ षष्ठं परिशिष्टम् - ।। १३५२ ।। Jain Education I reecele seeeeece " उक्तं च-- वरं वराकश्चार्वाको योऽसौ प्रकटनास्तिकः । वेदोक्ततापसच्छद्मच्छन्नं रक्षो न जैमिनिः ॥ ३८ ॥ " [ ] शास्त्रान्तरेऽप्येवमुक्तम् । वरं० । असौ वराकश्चार्वाको नास्तिको वरं यः प्रकटं लोकप्रसिद्धच्या नास्तिक इति रूढः । परं जैभिनिर्न वरं यतोऽसौ रक्षो राक्षसः किम्भूतः १ वेदोक्तितापसच्छद्म तापसवेषस्तेन छन्तं प्रच्छन्नः, मायावी राक्षस इव ॥ ३८ ॥ 'देवोपहारव्याजेन यज्ञव्याजेन येऽथवा । घ्नन्ति जन्तून् गतघृणा घोरां ते यान्ति दुर्गतिम् ॥ ३९ ॥ देवो० । देवा भैरव चण्डिकादयस्तेषामुपहारो बलिस्तस्य व्याजेन छलेन यज्ञच्छलेन वा ये जन्तून् घ्नन्ति विनाशयन्ति गतघृणा निर्दयास्ते घोरां रौद्रां दुर्गतिं यान्ति ।। ३९ ।। शम - शील- दयामूलं हित्वा धर्मं जगद्वितम् । अहो हिंसापि धर्माय जगदे मन्दबुद्धिभिः ॥ ४० ॥ शम० । शमः कषायेन्द्रियजयः, शीलं सुस्वभावता, दया अनुकम्पा, एतानि मूलकारणं यस्य धर्मस्य तं जगतो हितं धर्म हित्वा परित्यज्य मन्दबुद्धिभिः हिंसापि धर्माय जगदे प्रोक्ता ॥ ४० ॥ 1 तुला- " शान्त्यर्थं देवपूजार्थं यज्ञार्थमथवा नृभिः । कृतः प्राणभृतां घातः पातयत्यविलम्बितम् ॥ ४८९ ॥....... विहाय धर्मं शम-शीललाञ्छितं दयावहं भूतहितं गुणाकरम् । मदोद्धता अक्ष-कषायवञ्चिता दिशन्ति हिंसामपि दुःखशान्तये ॥ ४९९ ॥ ” इति ज्ञानार्णवे ।। For Private & Personal Use Only aaaaaal अवचूर्णि सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये | द्वितीयः प्रकाशः ।। १३५२ ।। 10 www.jainelibrary.org.
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy