________________
औष० । औषध्यो दर्भाद्याः । पशवश्छागाद्याः । वृक्षास्तरवः । तियञ्चो गवाश्वादयः । पक्षिणः कपिञ्जलाथाः । यज्ञार्थं निधनं विनाशं प्राप्ताः सन्तः उच्छिति देवत्वाद्यञ्चगतिं प्राप्नुवन्ति ॥ ३४ ॥
मधुपर्के च यज्ञे च पित्र्ये दैवतकर्मणि ।
अत्रैव पशवो हिंस्या नान्यत्रेत्यब्रवीन्मनुः ॥ ३५ ॥ मधुपर्के । मधुपर्के क्रियाविशेष पित्र्ये पित्रादिकार्ये दैवतकर्मणि च अत्रैव पशवो हिंस्या विनाश्या नान्यत्र इति मनुरब्रवीत् ॥ ३५॥
एष्वर्थेषु पशून् हिंसन् वेदतत्त्वार्थविद् द्विजः ।
आत्मानं च पशूश्चैव गमयत्युत्तमां गतिम् ॥ ३६॥" [मनुस्मृतौ ५।३९-४२] एव० । एषु अर्थेषु कार्येषु पशून हिंसन् द्विजः आत्मानं पशुंश्च उत्तमा स्वर्गापवर्गादिगतिं गमयति प्रापयति ॥ ३६ ॥
ये चक्रुः क्रूरकर्माणः शास्त्रं हिंसोपदेशकम् ।
क्क ते यास्यन्ति नरके नास्तिकेभ्योऽपि नास्तिकाः॥ ३७॥ ये चक्रुः । ये क्रूरकर्माणो हिंसोपदेशक हिंसास्थापकं स्मृत्यादिशास्त्रं चक्रः। ते नास्तिकेभ्योऽपि नास्तिकाः सन्तः क नरके यास्यन्ति न जानीम इति ॥ ३७ ॥
॥१३५१।।
Jain Education in
For Private & Personal Use Only
Jww.jainelibrary.org