SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ ॥१३४९॥ KHOMCHERCHEMEMORRHEMEMERMEREMIERENCHHEMERCEMEHEYENE हिंसा विघ्नाय जायेत विघ्नशान्त्यै कृतापि हि । कुलाचारधियाप्येषा कृता कुलविनाशिनी ॥ २९ ॥ हिंसा । विघ्नशान्त्यै कृतापि हिंसा विघ्नायैव जायेत यशोधरजीवसुरेन्द्रदत्तस्येव पिष्टमयकुक्कुटवधरूपा । कुलाचारबुद्धयापि कृता कुलविनाशिनी स्यात् ॥ २९॥ अपि वंशक्रमायातां यस्तु हिंसां परित्यजेत ।। स श्रेष्ठः सुलस इव कालसू(सौ)करिकामजः ॥ ३० ॥ अपि० । वंशक्रमकुलक्रमायातामपि हिंसां यः परित्यजेत् यथा कालसू(सौ)करिकाख्यः सौनिकस्तदात्मजः सुलसो यथा हिंसात्यागेन पुण्यतमोऽभूत् ॥ ३०॥ दमो देवगुरूपास्तिानमध्ययनं तपः । सर्वमप्येतदफलं हिंसां चेन्न परित्यजेत् ॥ ३१ ॥ दमो०। इन्द्रियविजयः देवगुरुसेवा दानम् अध्ययनं तपश्च एतत्सर्वं पुण्यार्जनं पापविनाशाद्यभावेन अफलं निष्फलं यदि हिंसां न त्यजेत् ।। ३१ ॥ 1 तुला-“कुलक्रमागता हिंसा कुलनाशाय कीर्तिता। कृता च विघ्नशान्त्यर्थं विघ्नौघायैव जायते ॥ ४९२॥" इति ज्ञानार्णवे॥ ॥१३४९॥ Jain Education Inconal For Private & Personal Use Only ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy