________________
षष्ठं परिशिष्टम् -
॥ १३४८ ॥
Jain Education I
निर्मा० । क्रूरकर्माणो लुब्धकादयः क्षणिकामात्मनो धृतिं संतोषं निर्मातुम् अन्यस्य शरीरिणो जीवस्य जन्म समापयन्ति समाप्ति नयन्ति ॥ २५ ॥
म्रियस्वेत्युच्यमानोऽपि देही भवति दुःखितः । मार्यमाणः प्रहरणैर्दारुणैः स कथं भवेत् ।। २६ ।।
म्रिय० । त्वं म्रियस्वेत्युच्यमानोऽपि न तु मार्यमाणः, देही दुःखितो भवति । स वराको दारुणैस्तीक्ष्णैः प्रहारैः मार्यमाणः कथं भवेत् ? परमदुःखितः स्यादित्यर्थः ॥ २६ ॥
हिंसायां दृष्टान्तमाह
श्रूयते प्राणिघातेन रौद्रध्यानपरायणौ ।
सुभूभो ब्रह्मदत्त सप्तमं नरकं गतौ ॥ २७ ॥
श्रूय० । श्रूयते आकर्ण्यते सिद्धान्ते, प्राणिघातेन रौद्रध्यानपरायणौ सुभूम- ब्रह्मदत्तचक्रिणौ सप्तमं नरकं गतौ ॥ २७ ॥ कुणिर्वरं वरं पङ्गुरशरीरी वरं पुमान् ।
अपि सम्पूर्णसर्वाङ्गो न तु हिंसापरायणः ॥ २८ ॥
कुणि० । पुमान् कुणिः पाणिहीनो वरम् । पङ्गुर्वा वरम् । अशरीरी कुष्ठी वा वरम् । अपि तु संपूर्णसर्वाङ्गोऽपि हिंसापरायणो
न वरम् ॥ २८ ॥
For Private & Personal Use Only
अवचूर्णि
सहिते
योगशास्त्र.
स्याद्य
प्रकाश
चतुष्टये
द्वितीयः
प्रकाशः
।। १३४८ ।।
10
www.jainelibrary.org