SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ॥ १३४३ ॥ Jain Education Inte aadaaee अथ धर्मस्वरूपमाह दुर्गतिप्रपतत्प्राणिधारणाद्धर्म उच्यते । संयमादिर्दशविधः सर्वज्ञोक्तो विमुक्तये ॥ ११ ॥ दुर्ग० | दुर्गतौ प्रपततां प्राणिनां धारणाद्धर्म उच्यते । स च धर्मः संयमादिभेदैर्दशविधः सर्वज्ञप्रणीतश्च विमुक्तये भवति ॥ ११ ॥ अपौरुषेयं वचनमसंभवि भवेद्यदि । न प्रमाणं भवेद्वाचां ह्याप्ताधीना प्रमाणता ।। १२ ।। अपौरु० । पुरुषेण कृतं पौरुषेयम्, न पौरुषेयम् अपौरुषेयं वचनं न संभवति । शरीरमुखादेरेव वचनोत्पत्तेः । कदाचित् संभवति तदा तत्प्रमाणं न भवेत् । यतो वाचां वचनानां प्रमाणता प्रामाण्यम् आप्ताधीनम् आप्तवक्तत्वहेतुकम् ॥ १२ ॥ मिध्यादृष्टिभिराम्नातो हिंसाः कलुषीकृतः । स धर्म इति वित्तोऽपि भवभ्रमणकारणम् ॥ १३॥ 1 मिथ्या० । यो धर्मों मिथ्यादृष्टिभिः आम्नातः प्रतिपादितः । हिंसादिदोषैः कलुषीकृतो मलिनितः । स मुग्धबुद्धिना धर्म इति नाम्ना वित्तः प्रसिद्धोऽपि भवभ्रमणस्यैव कारणं स्यात् ॥ १३ ॥ For Private & Personal Use Only ladalaan 5 10 ॥ १३४३ ॥ w.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy