________________
षष्ठं परिशिष्टम्
॥ १३४४॥
YEHCHEHEICHHETRICHCHCHCHACHCHCHACHCHEREICHECHERS
. अथ अदेवादीना साक्षेपं प्रतिक्षेपमाह
सरागोऽपि हि देवश्चेद् गुरुरब्रह्मचार्यपि ।
___ कृपाहीनोऽपि धर्मः स्यात् कष्टं नष्टं हहा जगत् ॥ १४ ॥ सरा० । चेद्यदि सरागोऽपि रागवानपि देवो भवेत् । तथा अब्रह्मचार्यपि गुरुः । कृपाहीनो दयाशून्योऽपि धर्मः स्यात्तदा, हहा खेदातिशये, कष्टमिति खेदे, तर्हि जगत् नष्टं देवगुरुधर्मशून्यत्वेन विनष्टमेवेति दुर्गतिपतनात् ॥ १४ ॥ अथ सम्यक्त्रलिङ्गानि आह
शम-संवेग निर्वेदा-ऽनुकम्पा-ऽऽस्तिक्यलक्षणैः ।
लक्षणैः पञ्चभिः सम्यक् सम्यक्त्वमुपलक्ष्यते ॥ १५॥ शमः । शमोऽन्तानुबन्धिकषायाणां प्रशमोऽनुदयः १, तथा संवेगो मोक्षाभिलाषः २, निर्वेदो भवबैराग्यम् ३, अनुकम्पा अपक्षपातेन दुःखितानां दुःखप्रहाणेच्छा ४, आस्तिक्यं तत्त्वान्तरश्रवणेऽपि जिनोक्ततत्त्वविषये निराकाङ्क्षा प्रतिपत्तिः ५। एतैः पञ्चभिर्लक्षणैश्चिह्नः सम्यक्त्वमुपलक्ष्यते ॥ १५ ॥ अथ सम्यक्त्वभूषणान्याह
स्थैर्य प्रभावना भक्तिः कौशलं जिनशासने । तीर्थसेवा च पश्चास्य भूषणानि प्रचक्षते ॥ १६ ॥
अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये द्वितीयः प्रकाशः ॥ १३४४॥
Jain Education Inte
For Private & Personal use only
Eaw.jainelibrary.org