SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् अवचूर्णि सहिते योगशास्त्रस्याद्यकी प्रकाश चतुष्टये द्वितीयः ॥१३४२॥ प्रकाशः अथ गुरुस्वरूपमाह महाव्रतधरा धीरा भैक्षमात्रोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः ॥ ८॥ महाव्रतानि पञ्च धरन्तीति महाव्रतधराः। धीरा धैर्योपेताः । भैक्ष्यं शुद्धान्नपानधर्मोपकरणम् , तन्मात्रमेवोपजीवन्तीत्येवंशीला भैक्ष्यमात्रोपजीविनः । सामायिक सर्वसामायिकं चारित्रं तत्र स्थिताः। शुद्धधर्मोपदेशकाश्च । एवंविधा गुरवो भवन्ति ॥ ८ ॥ अथाऽगुरुस्वरूपमाह सर्वाभिलाषिणः सर्वभोजिनः सपरिग्रहाः ।। अब्रह्मचारिणो मिथ्योपदेशा गुरवो न तु ॥९॥ सर्वा० । सर्वम् अभिलषन्तीति सर्वाभिलाषिणः । सर्व मधुमासानंतकायादि भुञ्जते इत्येवंशीलाः सर्वभो जिनः । तथा परिग्रहेण पुत्रकलत्रादिना सहिताः । अब्रह्मचारिणो मिथ्योपदेशकाश्च । एवंविधा गुरवो न स्युः ॥९॥ परिग्रहारम्भमग्नास्तारयेयुः कथं परान् । स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः ॥ १० ॥ परि० । परिग्रहे आरम्भे च ये मग्नास्ते परान् कथं तारयेयुः संसारात् । अत्रार्थे दृष्टान्तमाह-स्वयं० । स्वयं दरिद्रः पुमान् परानीश्वरीकतु कथमीश्वरः समर्थः स्यात् ॥ १० ॥ ॥१३४२ ॥ Jain Education in For Private & Personal Use Only 2 ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy