________________
॥ १३४९ ॥
Jain Education Inte
ध्यातव्यो ऽयमुपास्योऽयमयं शरणमिष्यताम् । अस्यैव प्रतिपत्तव्यं शासनं चेतनास्ति चेत् ॥ ५ ॥
ध्यात | अतः कारणादयमेव ध्यातव्य उपास्यः सेव्य: अयमेव संसारे शरणमिप्यताम् । अस्यैव च शासनं प्रतिपत्तव्यं बुधैः । चेद्यदि चेतना चैतन्यमस्ति भवति ॥ ५ ॥
ये स्त्रशस्त्रासूत्रादिरागाद्यङ्ककलङ्किताः । निग्रहानुग्रहपरास्ते देवा: स्युर्न मुक्तये || ६ ||
ये स्त्री० । ये देवाः स्त्रिया शस्त्रैः अक्षसूत्रेण जपमालया च रागादिचिहै: कलङ्किता भूषिताः । तथा निग्रहो बधबन्धादिरग्रहो वरप्रदानादिस्तेषु परास्ते देवा मुक्तये न स्युः ॥ ६ ॥
नाट्यगृहास संगीताद्युपप्लवविसंस्थुलाः ।
लम्भयेयुः पदं शान्तं प्रपन्नान् प्राणिनः कथम् ॥ ७ ॥
तथा नाट्या० । नाख्येन अट्टाहासेन संगीतादिभिश्चोपप्लवैर्ये विसंस्थुलाः ते प्रपन्नानाश्रितान् प्राणिनः शान्तं पदं सिद्धिं कथं लम्भयेयुः प्रापयेयुः ॥ ७ ॥
For Private & Personal Use Only
5
10
॥ १३४१ ॥
w.jainelibrary.org