________________
॥१३३९ ॥
अन्तरङ्गारिषड्वर्गपरिहारपरायणः ३४ ।
वशीकृतेन्द्रियग्रामो ३५ गृहिधर्माय कल्पते ॥ ५६ ॥ अन्त । अन्तरङ्गो योऽरिषड्वर्गस्तत्परिहारे तत्परः। वशीकृतेन्द्रियसमूहः। एवंविधः श्राद्धो गहिधर्माय कल्पते अधिकारी भवति ॥ ५६॥
BBCHCHEHRECHCHERCHCHCCCCHCHENCYCHCHEIRCHCHEHREE
इति परमार्हतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषन्नाम्नि सञ्जातपट्टवन्धे श्रीयोगशास्त्रे
द्वादशप्रकाशे प्रथमः प्रकाशः ॥ १॥
MEHEHEYENEHCHEMSHETRIEVEVERENERGICHKARICHERENCHEHEHEK
अथ द्वितीयः प्रकाशः सम्यक्त्वमूलानि पश्चाणुव्रतानि ५ गुणास्त्रयः ३ ।
शिक्षापदानि चत्वारि ४ व्रतानि १२ गृहमेधिनाम् ॥ १ ॥ सम्य० । सम्यक्त्वं मूलं येषां तानि अहिंसादीनि पश्च अणुव्रतानि मूलगुणरूपाणि, तथा त्रयो गुणा उत्तर गुणरूपाः, त्रीणि गुणव्रतानि दिग्त्रतादीनि । शिक्षाव्रतानि चत्वारि । एवं द्वादश ब्रतानि । गहमेधिनां श्रावकाणां भवन्ति ॥१॥
| १३३९॥
Jain Education in
nal
For Private & Personal Use Only
क
ww.jainelibrary.org