SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ षष्ठं परिशिष्टम् - ॥ १३३८ ॥ Jain Education I यथावदति साधौ दीने च प्रतिपत्तिकृत् १९ । सदाऽनभिनिविष्टश्च २० पक्षपाती गुणेषु च २१ ॥ ५३ ॥ यथा । यथावत् औचित्येन अतिथौ साधौ दीने च प्रतिपत्तिकर्त्ता अन्नपानादिना । सदाऽनभिविष्टोऽभिनिवेशरहितः । अन्यगुणेषु पक्षपाती च ॥ ५३ ॥ अदेशाकालयोश्चर्यं त्यजन् २२ जानन् बलाबलम् २३ । वृत्तस्थज्ञानवृद्धानां पूजकः २४ पोष्यपोषकः २५ ॥ ५४ ॥ अदे० । निषिद्धे देशे निषिद्धे काले च चर्यां गमनं त्यजन् । निजबलाबलं जानन् । अनाचारवर्जनमाचारपालनं च वृत्तम्, ततो वृत्तस्थानां ज्ञानवृद्धानां च पूजकः सेवा ऽभ्युत्थानादिकर्त्ता । पोप्या अवश्यभर्त्तव्या मातृपित्रादयः, तेषां पोषकः ॥ ५४ ॥ दीर्घदर्शी २६ विशेषज्ञः २७ कृतज्ञो २८ लोकवल्लभः २९ । सलज्जः ३० सदयः ३१ सौम्यः ३२ परोपकृतिकर्मठः ३३ ॥ ५५ ॥ दीर्घ० । आगामिकाभाविनमर्थमनर्थं च पश्यति । पर्यालोचयतीत्येवंशीलो दीर्घदर्शी, तथा कृत्या कृत्यानां स्वपरादीनां च विशेषम् अन्तरं जानातीति विशेषज्ञः । तथा परोपकृतं जानातीति कृतज्ञः । तथा विनयादिगुणैर्लोकानां पूजितः वल्लभः । सलज्जो लज्जावान् । सदयो दयावान् । सौम्योऽकूरः । परोपकारकर्मशूरश्च ।। ५५ ।। For Private & Personal Use Only eeeeeeen अवचूर्णि | सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये प्रथमः प्रकाशः ।। १३३८ ।। 10 www.jainelibrary.org.
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy