SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ॥१३३७॥ कृतसङ्गः सदाचारै ८ मातापित्रोश्च पूजकः ९ । त्यजन्नुपप्लुतं स्थान १० मप्रवृत्तश्च गर्हिते ११ ॥ ५० ॥ कृतः । सदाचारैः कृतसङ्गः मातापित्रोः पूजकश्च । उपप्लुतं स्वचक्रपरचक्रादस्वच्छीभूतं स्थानं त्यजन् । गर्हिते निन्द्ये कर्मणि सुरापानादौ कृप्यादौ वा अप्रवृत्तः स्यात् ॥ ५० ॥ व्ययमायोचितं कुर्वन् १२ वेषं वित्तानुसारतः १३ । अष्टभिर्धीगुणेर्युक्तः १४ शृण्वानो धर्ममन्वहम् १५ ॥ ५१॥ व्यय० । आयोचितं व्ययं कुर्वन् । वित्तानुसारतश्च वेषं कुर्वन् । अष्टभिर्बुद्धिगुणैः, शुश्रूषा १ श्रवणं २ ग्रहणं ३ धारणम् ४ ऊहः ५ अपोहः ६ अर्थविज्ञानं ७ तत्त्वज्ञानं ८ च, एतैरष्टाभिर्बुद्धिगुणैर्युक्तः । अन्वहं निरन्तरं धर्म शृण्वानः ॥ ५१ ।। अजीर्णे भोजनत्यागी १६ काले भोक्ता च सात्म्यतः १७ । अन्योन्याप्रतिबन्धेन त्रिवर्गमपि साधयन् १८ ।। ५२॥ अजी० । पूर्वभोजनस्याजरणे परिपाकमगमने नवं भोजनं त्यजतीत्येवंशीलो भोजनत्यागी स्यात् । तथा काले बुभुक्षासमये भोक्ता । यस्य प्रकृतेर्ये पानाहारादयोऽविरुद्धास्तदनुसारेण यद भोजनं तत् साम्यं तस्मात् । त्रिवर्ग धर्मार्थकामलक्षणम् अन्योन्याप्रतिबन्धेन एकैकस्याऽनुपघातेन साधयन् । न त्वेकैकमेव ।। ५२ ॥ ॥१३३७॥ Jain Education intonal For Private & Personal Use Only w.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy