________________
षष्ठं परिशिष्टम्
अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये
॥ १३३६॥
प्रथमः
BeeeeeHGROICIEHEHRRHORRORSHHHetative
सर्वात्मना यतीन्द्राणामेतच्चारित्रमीरितम् ।
यतिधर्मानुरक्तानां देशतः स्यादगारिणाम् ॥ ४६ ॥ सर्वाः । एतत् यतीन्द्राणां सर्वात्मना सर्वतश्चारित्रम् ईरितं प्रतिपादितं । यतिधर्मानुरक्तानां अगारिणां गृहस्थानां तु देशतश्चारित्रं स्यात् ।। ४६॥ अथ धर्मयोग्यस्य गहिणो गुणानाह
न्यायसंपन्नविभवः १ शिष्टाचारप्रशंसकः २।
कुलशीलसमैः सार्द्ध कृतोद्वाहोऽन्यगोत्रजैः ३ ॥ ४७ ॥ न्यायेन सम्पन्न विभवः, शिष्टानामाचारस्य प्रशंसाकर्ता, कुलेन शीलेन ये समास्तैरन्यगोत्रसम्भूतैः समं कृतोद्वाहः ॥ ४७ ॥
पापभीरुः ४ प्रसिद्धं च देशाचारं समाचरन् ५।।
अवर्णवादी न क्वापि राजादिषु विशेषतः ६॥ ४८ ॥ पाप० । पापभीरुः, प्रसिद्धं देशाचारं समाचारन , कापि जन्तुषु न अवर्णम् अयशो वदतीत्येवंशीलोऽवर्णवादी न भवति । राजादिषु विशेषादवर्णवक्ता न ॥ १८ ॥
अनतिव्यक्त गुप्ते च स्थाने सुप्रातिवेश्मिके ।
अनेकनिर्गमद्वारविवर्जितनिकेतनः ७॥ ४९ ॥ अन । अतिव्यक्ते अतिगुप्ते च स्थाने अनेकनिर्गमद्वाविवर्जितं निकेतनं यस्य सः, सुप्रातिवेश्मिके च ॥ १९ ॥
BEHCHCHCHRISTRICTCHEREHCHECHCHEHETRIBHEHCHEHERavara
प्रकाशः
॥१३३६॥
Jain Education Intel
For Private & Personal use only
Ww.jainelibrary.org