________________
॥१३३५॥
उपसर्गप्रसङ्गेऽपि कायोत्सर्गजुषो मुनेः ।
स्थिरीभावः शरीरस्य कायगुप्तिर्निगद्यते ॥४३॥ कायगुप्तिर्द्विधा-चेष्टानिवृत्तिरूपा, यथासूत्रं चेष्टानियमरूपा च । उप० उपसर्गसद्भावेऽपि कायोत्सर्गजुषो मुनेर्यः शरीरस्य स्थिरीभावः स्थैर्य सा कायगुप्तिर्निगद्यते जिनैः ॥ ४३ ॥
HOHENDICHCHHIGHEHEHCHEHRISHCHCHCHCHCHCHERCHCHEHCHEHEK
अथ द्वितीयामाह
शयनासननिक्षेपादानचक्रमणेषु यः ।
स्थानेषु चेष्टानियमः कायगुप्तिस्तु साऽपरा ॥ ४४ ॥ शयना० । शयने आसने दण्डादिनिक्षेपादानेषु चक्रमणेषु च स्थानेषु यश्चेष्टानियमः स्वच्छन्दचेष्टापरिहारः साऽपरा द्वितीया कायगुप्तिः ॥ ४४ ॥
HOHDHEHCHCHEHRETCHENBHBIGGMCHCHEHICHCHHEHCHEMICHCHER
एताश्चारित्रगात्रस्य जननात परिपालनात । संशोधनाच्च साधूनां मातरोऽष्टौ प्रकीर्तिताः ॥ ४५ ॥
एता० । एताः पञ्च समितयस्तिस्रो गुप्तयश्च साधूनां मातर इवाष्टौ मातरः प्रकीर्तिताः । चारित्रगात्रस्य जननात् परिपालनात् दोषसंशोधनाच्च मातर एव एता ज्ञेयाः ॥ ४५ ॥
Jain Education in polna!
For Private & Personal Use Only
ww.jainelibrary.org