SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये ॥१३३४॥ प्रथमः RCHCHIERSPEECHERRIERREECREENCHEHREHER आस० । आसनादीनि दृष्ट्वा संवीक्ष्य रजोहरणेन प्रतिलिख्य च यत् गृह्णीयात् निक्षिपेत् स्थापयेद्वा साऽऽदानसमितिः ॥ ३९॥ कफमूत्रमलमायं निर्जन्तुजगतीतले । यत्नात् यदुत्सृजेत् साधुः सोत्सर्गसमितिर्भवेत् ५ ॥ ४० ॥ कफ० । कफो मूत्रं मलो विष्टा तत्प्रायं । 'प्राय' ग्रहणादन्यदपि परिष्ठाप्यं वस्त्रपात्रभक्तपानादि निर्जीवभूमौ यत्नात् उपयोगपूर्व यत् उत्सृजेत् परिष्ठापयेत् साधुः सा उत्सर्गसमितिः ॥ ४० ॥ अथ गुप्तिराह विमुक्तकल्पनाजालं समत्वे सुप्रतिष्ठितम् । आत्माराम मनस्तज्ज्ञैर्मनोगुप्तिरुदाहृता ॥४१॥ विमु० । आर्त्तरौद्रध्यानानुबन्धि यत् कल्पना जालं तेन विमुक्तम् । समत्वे सुप्रतिष्ठितं साम्यमयम् । आत्मनि आ समंतात् रमते तत् आत्माराममेवंविधं यत् मनस्तत् तज्ज्ञैः सुधीभिर्मनोगुप्तिरुदाहृता प्रोक्ता ॥ ४१ ।। संज्ञादिपरिहारेण यन्मौनस्याऽवलम्बनम् । वागवृत्तेः संवृतिर्वा या सा वागगुप्तिरिहोच्यते ॥ ४२ ॥ संज्ञा० । संज्ञा हस्तादिना संज्ञा, 'आदि'शब्दात् लेष्टुविक्षेप-कासितादिपरिहारेण यत् मौनस्याऽवलम्बनम् । अथवा | वागवत्तेर्वचनव्यापारस्य संवरणं नियन्त्रण वा सा वाग्गुप्तिः ॥ ४२ ॥ प्रकाश ॥१३३४॥ 10 Jain Education S onal For Private & Personal Use Only O ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy