________________
॥१३३३॥
अव० । अवद्यानि भाषादोषा धूर्त-कामुक-चौर-पारदारिक-चार्वाकादिवचनानि वा, तेषां त्यागात् सर्व०-सर्वजनेभ्यो हितं मित स्वरूपं च यत् भाषणम् सा भाषासमितिर्वाचंयमानां प्रियाऽभीष्टा भवति ॥ ३७ ॥ एपणामाह
द्विचत्वारिंशता भिक्षादोषैनित्यमदूषितम् ।
मुनिर्यदन्नमादत्ते सैषणासमितिर्मता ३ ॥३८॥ द्विचः । द्विचत्वारिंशता भिक्षादोषैरदूषितं यदन्नं मुनिरादत्ते गहणाति सा एषणासमितिः ॥ ३८ ॥ आदाननिक्षेपसमितिमाह
आसनादीनि संवीक्ष्य प्रतिलिख्य च यत्नतः ।
गृह्णीयानिक्षिपेद्वा यत् सादानसमितिमता ४ ॥ ३९॥ 1 तुला-"शय्यासनाभिधानानि शास्त्रोपकरणानि च । पूर्व सम्यक् समालोक्य प्रतिलिख्य पुनः पुनः ॥ ८९९ ।।
गृहणतोऽस्य प्रयत्नेन क्षिपतो वा धरातले । भवत्यविकला साधोरादानसमितिः स्फुटम् ॥९०० ॥ विजन्तुकधरापृष्ठे मूत्र-श्लेष्म-मलादिकम् । क्षिपतोऽतिप्रयत्नेन व्युत्सर्गसमितिर्भवेत् ॥९०१ ॥ विहाय सर्वसंकल्पान् राग-द्वेषार्तिसूचकान् । स्वाधीनं कुर्वतश्चेतः समत्वे सुप्रतिष्ठितम् ॥ ९०२॥ सिद्धान्तसूत्रविन्यासे शश्वत् प्रेरयतोऽथवा। भवत्यविकला नाम मनोगुप्तिमनीषिणः ॥ ९०३ ॥ साधुसंवृतवाग्वृत्तेर्मोनारुढस्य वा मुनेः। संज्ञादिपरिहारेण वाग्गुप्तिः स्यान्महामतेः ॥९०४ ।। स्थिरीकृतशरीरस्य पर्यवं संश्रितस्य वा। परीषहप्रपातेऽपि कायगुप्तिर्मता मुनेः ॥९०५॥” इति ज्ञानार्णवे ।।
For Private & Personal Use Only
SHOCHCHEHCHCHEHRELEHEREHIGHEHEROHSHCHCHEHREKHET
॥१३३३॥
Jain Education in
ww.jainelibrary.org