________________
॥ १३३१॥
MIRISHCHIKSHMIRRORIGHEHRETCHEHEHEIGHBHIBHEHEREHEHEN
स्पर्श १ रसे च २ गन्धे च ३ रूपे ४ शब्दे ५ च हारिणि । पञ्चस्वितीन्द्रियार्थेषु गाढं गाद्धर्यस्य वर्जनम् ॥ ३२ ॥ एतेष्वेवामनोत्रेषु सर्वथा द्वेषवर्जनम् ।
आकिश्चन्यव्रतस्यैवं भावनाः पञ्च कीर्तिताः ॥ ३३॥ [युग्मम् ] ॥ स्पर्शे० । स्पर्श १ रसे २ गन्धे ३ रूपे ४ शब्दे ५ च हारिणि मनोहरे एतेषु पञ्चसु इन्द्रियार्थेषु विषयेषु यत् गाढं गार्थस्याऽभिष्वङ्गस्य तीव्ररागस्य वर्जनम् ॥ ३२ ॥
अथवा एतेष्वे । एतेष्वेव पञ्चसु विषयेषु अमनोज्ञेषु अनिष्टेषु सर्वप्रकारेण यत् द्वेषवर्जनम् । आकिञ्चन्यव्रतस्य अपरिग्रहव्रतस्य एताः पञ्च भावनाः कीर्तिताः ॥ ३३ ॥ युग्मम् ॥
अथवा पञ्चसमितिगु-प्तित्रयपवित्रितम् ।
चरित्रं सम्यक् चारित्रमित्याहुमुनिपुङ्गवाः ॥ ३४ ॥ 1 तुला-"पञ्चव्रत-समित्पञ्च-गुप्तित्रयपवित्रितम् । श्री वीरवदनोद्गीर्ण चरणं चन्द्रनिर्मलम् ॥ ४७६ ॥
ईर्याभाषेषणादाननिक्षेपोत्सर्गसंज्ञकाः (संक्षिका M )। सद्भिः समितयः पञ्च निर्दिष्टाः संयतात्मभिः ।। ८८८ ॥ दिवा सूर्यकरैः स्पृष्टं मार्ग लोकातिवाहितम् । दयार्द्रस्थाङ्गिरक्षार्थ शनैः संश्रयतो मुनेः ॥ ८९१ ॥ प्रागेवालोक्य यत्नेन युगमात्राहितेक्षिणः । प्रमादरहितस्यास्य समितीर्या प्रकीर्तिता ॥ ८९२॥” इति ज्ञानार्णवे ॥
॥१३३१॥
Jain Education Inte
For Private & Personal Use Only
fw.jainelibrary.org