SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ षष्ठं परिशिष्टम् ॥ १३३० ॥ Jain Education समानधार्मिकेभ्यश्च तथाऽवग्रहयाचनम् । अनुज्ञापितपानान्नाशनमस्तेयभावनाः ।। २९ ।। आलो० । आलोच्य मनसा विचिन्त्य अवग्रहयाच्या १, स्वामिना सकृद्दतेऽप्यवग्रहे अभीक्ष्णं पुनः पुनरवग्रहयाचनम् २, एतावन्मात्रमेव क्षेत्रं ममोपयोगि नाधिकमित्यवग्रहस्य धारणं व्यवस्थानम् ३ ॥ २८ ॥ समा० । समानधार्मिकेभ्यः साधुभ्यः पूर्वपरिगृहीतक्षेत्रेभ्योऽप्यवग्रहयाचनं ४ गुरुणा अनुज्ञापितानामन्नपानानामशनं ५ च । एताः पञ्च अस्तेयव्रतभावनाः स्युः ॥ २९ ॥ युग्मम् ॥ स्त्रीषण्ढ पशुमद्वेश्मासन कुव्यान्तरोज्झनात् १ | रात्रीकथा त्यागात् २ प्राग्रतस्मृतिवर्जनात् ३ ॥ ३० ॥ स्त्रीरम्याङ्गेक्षणस्वाङ्गसंस्कार परिवर्जनात् ४ । प्रणीतात्यशनत्यागाद् ५ ब्रह्मचर्यं च भावयेत् ॥ ३१ ॥ स्त्रीषं० । स्त्री-षण्ढ - पशुमत् यत् वेश्म गृहमासनं कुड्यान्तरं च तेषामुज्झनात् त्यागात् १ । सरागा याः स्त्रियस्तासां ताभिर्वा कथायात्यागात् २ । प्राक् गृहस्थत्वे यत् रतं क्रीडा : श्रीभिः सह तस्य स्मृतेर्वर्जनात् ॥ ३० ॥ स्त्रीरम्यां० । स्त्रीणां रम्याङ्गानां स्तनादीनामीक्षणं विलोकनम्, स्वाङ्गस्य संस्कारः स्नानविलेपनादिना, तयोः परिवर्जनात् ४ । प्रणीतं स्निग्धं यदशनमत्यशनं वा आकण्ठेादरपूरणं च तयोस्त्यागात् ५ । एताभिर्भावनाभिर्ब्रह्मचर्यं भावयेत् ॥ ३१ ॥ For Private & Personal Use Only अवचूर्णिसहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये प्रथमः प्रकाशः ।। १३३० ॥ 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy