SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ ॥१३२५॥ amrataHamaaHIRESHERPREMICHHHHHHHHHHHHHEN तत्का० । तत्कालं यत् कृतं दुष्कर्म स्त्रीवधरूपं तेन कर्मठस्य कर्मशूरस्य चिलातीपुत्रस्य दुष्टस्यापि गोत्रे रक्षकाय | योगाय कः पुमान्न स्पृहयेत् ॥ १३ ॥ तस्याजननिरेवास्तु नृपशोर्मोधजन्मनः । अविद्धकर्णो यो योग इत्यक्षरशलाकया ॥ १४ ॥ तस्या० । तस्य नृपशोः पशुप्रायपुरुषस्य अजननिरजन्मैवाऽस्तु मोघ[जन्मन इति ] निपप्लजन्मनः । यः पुमान् योग इत्यक्षरशलाकया अविद्धकर्णः, योग इत्यक्षरद्वयस्याप्यश्रवणात् ॥ १४ ॥ चतुर्वर्ग:ग्रणीर्मोक्षो योगस्तस्य च कारणम् ।। ज्ञान-श्रद्धान-चारित्ररूपं रत्नत्रयं च सः ॥ १५ ॥ चतः । चतर्वर्गे धर्म-कामादिवर्गचतुष्केऽप्यग्रणीच्ख्यो मोक्षः। तस्य च कारणं योगः। स च ज्ञान-दर्शन-चारित्ररूपं यत् रत्नत्रयं तद्रपो भवति ॥ १५॥ अथ ज्ञानस्वरूपमाह यथावस्थिततत्त्वानां संक्षेपाद्विस्तरेण वा । योऽवबोधस्तमत्राहुः सम्यग् ज्ञानं मनीषिणः ॥ १६ ॥ यथा । यथावस्थितानां सत्यानां जीवाजीवादितत्त्वानां संक्षेपाद्विस्तरेण वा योऽवबोधोऽवगमस्तं सम्यग् ज्ञानं मनीषिणः प्राहुः ॥ १६ ॥ BHETETCHEHEREHEHEREHERRIERENCERIEEEECHERREE ॥१३२५॥ Jain Education In n al For Private & Personal Use Only SEww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy