________________
E
परिशिष्टम्
अवचूर्णिसहिते योगशास्त्र
स्याद्य
॥ १३२४॥
TCHCHHETCHECHCHEHCHCHERCHEHEHCHEHCHCHCHEHCHCHEHEHEHCHE
अहो योगस्य माहात्म्यं प्राज्यं साम्राज्यमुद्वहन् ।
अवाप केवलज्ञानं भरतो भरताधिपः ॥१०॥ अहो । अहो आश्चर्यकारि योगस्य माहात्म्यं भवति । यतः प्राज्यं साम्राज्यं चक्रवर्त्तित्वमनुभवन्नपि भरतक्षेत्राधिपो भरतनामा चक्री केवलज्ञानमवाप प्राप योगमाहात्म्याद् ध्यानबलेन ॥ १०॥
पूर्वमप्राप्तधर्मापि परमानन्दनन्दिता ।
योगप्रभावतः प्राप मरुदेवा परं पदम् ॥ ११ ॥ पूर्व । आसंसारं त्रसत्वस्याप्यप्राप्तेः पूर्वमप्राप्तधर्मापि मरुदेवा तीर्थकरऋद्धिदर्शनात् परमानन्देन नन्दिता पूरिता सती योगप्रभावात् परं पदं मुक्तिपदं प्राप ॥ ११ ॥
ब्रह्म-स्त्री-भ्रूण-गोघातपातकानरकातिथेः ।।
दृढपहारिप्रभृतेयोंगो हस्तावलम्बनम् ॥ १२ ॥ ब्रह्म । ब्रह्मणो विप्रस्य १ स्त्रियो २ भ्रूणस्य बालस्य ३ गोर्धेनोश्च ४ यो घातस्तत्पातकानरकातिथेः नरकप्राधुणकस्यापि दृढपहारिप्रभृतेर्जनस्य नरके पततो योगो हस्तावलम्बनं बभूव, सद्गतिप्राप्तेः ॥ १२ ॥
तत्कालकृतदुष्कर्मकर्मठस्य दुरात्मनः । गोप्ने चिलातीपुत्रस्य योगाय स्पृहयेन कः ॥ १३ ॥
For Private & Personal use only
प्रकाशचतुष्टये प्रथमः प्रकाशः
MICHICHCHEHREHENDICHCHHETCHEHCHEHCHCHCHEHDHDHEHRE
10
Jain Education in a
nal
www.jainelibrary.org