________________
॥१३२३॥
CHCHHETCHEHEREHECHEHERCHCHENCHEHCHCHCHEHEHERCHOTE
क्षिणोति योगः पापानि चिरकालार्जितान्यपि ।
प्रचितानि यथैधांसि क्षणादेवाशुशुक्षणिः ॥७॥ क्षिणोति । योगश्चिरकालार्जितानि बहुजन्मार्जितान्यपि पापानि क्षिणोति विनाशयति । यथा प्रचितानि चिरकालमीलितान्यपि एधांसि इन्धनानि आशशुक्षणिरग्नि क्षणाद्दहति । अनेनाऽनेकजन्मार्जितपातकक्षय उक्तः ॥७॥
कफविपुण्मलामर्शसर्वोषधिमहर्द्धयः ।।
सम्भिन्नश्रोतोलब्धिश्च योग ताण्डवडम्वरम् ॥८॥ कफ० । कफः श्लेष्मा, बिछुट् पुरीषम् , मलः कर्ण-नेत्र-दन्तनकोत्थः शरीरोत्थश्च । आमझे हस्तादिस्पर्शः । ते कफादय उक्ता अनुक्ताश्च सर्वे महर्द्धय औषधयो रोगोच्छेदाय भवन्ति । तथा सम्भिन्नानि मिलितानि श्रोतांसि इन्द्रियाणि यत्र, एकैकेन सर्वेन्द्रियविषयग्रहणात् , सा संभिन्नश्रोतोलब्धिश्च, एतत् सर्व योग योगसम्बन्धि ताण्डवडम्बरं विलसितं ज्ञेयम् ॥ ८॥
चारणा-ऽऽशीविषा-ऽवधि-मनःपर्यायसंपदः ।।
योगकल्पमस्यैता विकाशिकुसुमश्रियः ॥९॥ तथा चार० । चारणलब्धिः आशीविषलब्धिः अवधिज्ञान-मनःपर्यवज्ञानसंपदश्च । एता योगकल्पद्रमस्य विकाशिकुसुमश्रिय इव भवन्ति ॥ ९॥
BICHEHCHCHICISHORRHOIDHIBICHHICHCHCHEHENSHCHEHCHCHCHONE
॥ १३२३॥
Jain Education Internal
For Private & Personal Use Only
Jww.jainelibrary.org