________________
षष्ठं परिशिष्टम् -
॥ १३२२ ॥
Jain Education
अथ योगस्य हेतुत्रयेण निर्णयं ख्यापयन्नाह-
श्रुताम्भोधेरधिगम्य संप्रदायाच्च सद्गुरोः ।
स्वसंवेदनतश्चापि योगशास्त्रं विरच्यते ॥ ४ ॥
श्रुता० । श्रुताम्भोधेः शास्त्रसमुद्रात् योगं अधिगम्य निर्णीय १, तथा सद्गुरोः संप्रदायाच्च निर्णीय २, स्वसंवेदनतः स्वानुभवाच्चाप्यधिगम्य ३, मया योगशास्त्रं विरच्यते ॥ ४ ॥
अथ योगस्य माहात्म्यमाह
योगः सर्वविपदल्लीविताने परशुः शितः । अमूल-मन्त्र-तन्त्रं च कार्मणं निर्वृतिश्रियः ॥ ५ ॥
योगः । सर्वा या विपदस्ता एव वल्लयः, तासां वितानः समूहः, तत्र शितस्तीक्ष्णः परशुः कुठारः इत्यनेनानर्थपरिहारो योगफलम् । तथा मूलं मन्त्रं तन्त्रं च विनापि निर्वृतिश्रियो मोक्षलक्ष्म्याः कार्मणं वशीकरणं योगो भवति ॥ ५ ॥ भूयांसोऽपि हि पाप्मानः प्रलयं यान्ति योगतः । चण्डवाताद् घनघना घनाघनघटा इव ॥ ६ ॥
भूयां । भूयांसोऽपि बहून्यपि पाप्मानः पापानि योगत: प्रलयं यान्ति क्षीयन्ते इव यथा घनघना अतिघना घनाघनघटा मेघघटाः प्रचण्डवातात् प्रलीयन्ते । अनेन एकजन्मार्जितपापक्षय उक्तः ।। ६ ।।
For Private & Personal Use Only
अवचूर्णि सहिते
योगशास्त्र
स्याद्य
प्रकाश
चतुष्टये
प्रथमः
प्रकाशः
।। १३२२ ।।
www.jainelibrary.org