________________
॥१३२१॥
अर्हते पूज्यायेत्यनेन पूजातिशयः २। योगिनोऽवधिजिनादयस्तेषां नाथाय केवलज्ञानित्वेनेति ज्ञानातिशयः ३। तायिने सर्वजन्तुपालकाय, पालकत्वं तु सकलभुवनाभयदानसमर्थसर्वभाषानुयायिधर्मदेशनाद्वारेणेत्यनेन वचनातिशयः। इति भगवतश्चत्वारोऽतिशयाः सूचिताः ॥१॥
KENGHIMIRKHANCHEHERCTCHEHRISHCHCHCHERCHCHCHCHCHHETER
अथ योगगर्भा स्तुतिमाह
पन्नगे च सुरेन्द्रे च कौशिके पादसंस्पृशि।
निर्विशेषमनस्काय श्रीवीरस्वामिने नमः ॥२॥ पन्न। पन्नगस्य पूर्वभवभूतकौशिकगौत्रत्वेन कौशिकत्वम्, सुरेन्द्रस्य च कोशिकाभिधानम् । ततो दशनाय नमस्करणाय च पादसंस्पृशि पादयोलग्ने कोशिके पन्नगे सरेन्द्रे च विषये निर्विशेषं मनो यस्य तस्मै श्रीवीरस्वामिने नमोऽस्तु ॥२॥
MHDHDHDHDHDHDHDHCHETRICIENCHCHERHCHEHRISHCHEHCHEHEHCHCHAL
अथ पुनर्योगगर्दा स्तुतिमाह
कृतापराधेऽपि जने कृपामन्थरतारयोः ।
ईपद्वाप्पार्द्रयोभद्रं श्रीवीरजिननेत्रयोः ॥ ३॥ कृता० । कृतापराऽधेपि संगमकादौ जने कृपया मन्थरे ईषन्नते तारे तारके ययोः, करुणया यत् ईषद् बाष्पं चक्षुर्जलं तेन आर्द्रयोः स्निग्धयोः श्रीवीरजिननेत्रयोर्भद्रमस्तु ।
१३२१॥
Jain Education
For Private & Personal use only
|www.jainelibrary.org