________________
परिशिष्टम्
अथ दर्शनस्वरूपमाह
रुचिर्जिनोक्ततत्त्वेषु सम्यक् श्रद्धानमुच्यते । जायते तनिसर्गेण गुरोरधिगमेन वा ॥१७॥
रुचि० । जिनोक्ततत्त्वेषु सर्वज्ञप्रणीततत्त्वेषु या रुचिरिच्छा तत् सम्यक् श्रद्धानम् उच्यते । तत् श्रद्धानं केषाश्चित् जीवानां निसर्गेण स्वभावेन गुरूपदेशनिरपेक्षतया जायते । केषांचित् गुरोरधिगमेन गुरुसंयोगेन वा स्यात् ॥ १७॥
॥१३२६॥
MOHEHENGEHEHREERIORRHEHEHEHEHREHEHEHCHEHEENCHEHEN
अवचूर्णि सहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये प्रथमः प्रकाशः
अथ चारित्रमाह--
KHEREHEMAMINENEMINETHEHORIGHEHEKSHCHCHERSHEKSHEN
।।१३२६॥
सर्वसावद्ययोगानां त्यागश्चारित्रमिष्यते ।
कीर्तितं तदहिंसादिवतभेदेन पञ्चधा ॥ १८॥ सर्वप्रकारेण सावद्यानां सपापानां योगानां व्यापाराणां यस्त्यागस्तच्चारित्रमिष्यते बुधैः। अहिंसादिवतच्चारित्रम् तपञ्चकभेदेन पञ्चधा जिनैः कथितम् ॥ १८ ॥
___ 1 तुला-" यज्जीवादिपदार्थानां श्रद्धानं तद्धि दर्शनम् । निसर्गेणाधिगत्या वा तद् भव्यस्यैव जायते ॥ ३८८ ॥" इति ज्ञानार्णवे॥
Jain Education
anal
For Private & Personal Use Only
www.jainelibrary.org