________________
योगशास्त्र. स्वोपनवृत्ती
॥ ३३ ॥
Jain Education Inter
Jeeeeeeeeee
कृतज्ञता प्रकटनं धन्यवाद वितरणं च
अस्य ग्रन्थस्य संशोधनादौ सञ्चिताक्षरपत्र [ प्रुफ ] पठनादिभिरनेकैः प्रकारैः मम परमविनीतेन अन्तेवासिना मुनिश्री धर्मचन्द्र विजयेन पदे पदे परमं साहायकमनुष्ठितम् । परमात्मा सद्गुरुदेवाश्च तं परमश्रेयसा युञ्जीरन्निति प्रार्थये ।
३६५ पत्रात्मिकायां संपू, प्रतौ ३१९ पत्रात्मिकायां है. प्रतौ च विद्यमानाः सर्वेऽपि पाठभेदाः मम मातृष्वसुः साध्वीश्री कञ्चनश्रियः पुत्र्याः शिष्यायाश्च साध्वीश्री लावण्यश्रियः परिवारेण संगृहीताः, तृतीय- चतुर्थ - पञ्चमपरिशिष्टान्यपि तेनैव विहितानि । चिरकालीनमहाश्रमसाध्यमिदं कार्यं विधाय तेन महत् साहायकं व्यधायि । अतोऽत्र स महान्तं धन्यवादमर्हति । षष्ठपरिशिष्टे विद्यमानाया अवचूर्णेः हस्तलिखितादर्शमवलम्ब्य मुद्रणाय प्रतिकृतिः मदन्तेवासिमुनिश्री धर्मचन्द्र विजयभगिन्याः साध्वीश्री चन्द्रोदयाश्रियः परिवारेण विहिता । सोऽपि धन्यवादमर्हति ।
मम पूज्या ९१ वर्षदेशीया वृद्धा माता साध्वीश्री मनोहरश्रीः, तथा वर्षद्वयात् प्रागेव श्री शङ्खेश्वरतीर्थसमीपे लोलाडाप्रामे ( विक्रमसंवत् २०४० ता. ६-११-८३ रविवासरे ) दिवं गतः मम प्रथमशिष्यो वयोवृद्धो देवतुल्यो मुनिश्री देवभद्रविजयः प्रसन्नेनान्तरात्मना आशिषा साहायकं कृतवन्ताविति तावपि भूयो भूयो धन्यवादमर्हतः ।
योगशास्त्रस्य सप्तमे प्रकाशेऽष्टमे श्लोके [पृ० १०८१ ] विद्यमानानि पिण्डस्थ पदस्थ रूपस्थ-रूपातीतनामानि चत्वारि
For Private & Personal Use Only
Beeeeeeeeeeeeeeeeeeeeeeeee
तृतीयविभागस्य
प्राकथनम्
॥ ३३ ॥
jainelibrary.org