________________
योगशास्त्रस्वोपज्ञ
तृतीयविभागस्य प्राक्कथनम्
वृत्ती
॥३१॥
THEHCHEMIEREHENSHISHEHENSIHARIENCHEICHEREHENGINEETICH
शास्त्रकृतां तत्रभवतां श्रीहेमचन्द्रसूरिपादानां कुमारपालनृपतेश्च संक्षिप्तं चरित्रं संक्षेपेण प्रथमविभागस्य प्रस्तावनायो पुरोवचने चाभिहितं तत्रैव विलोकनीयम् ।
विषयः प्रथमविभागस्य प्रस्तावनायां पुरोवचने च संक्षेपेण सूचितः। विस्तरस्तु अस्मिन् विभागे विषयानुक्रमाज्ज्ञातव्यः । एतत्संशोधनायावलम्बितानां हस्तलिखितादर्शानां स्वरूपं प्रथम-द्वितीयविभागयोवर्णितम् । तत्तत्सङ्केतस्पष्टीकरणमपि तत्रैव विहितम् ।
प्रथमे परिशिष्टे द्वादशानां प्रकाशानां मुद्रणसमयेऽस्मदनवधानादिना स्थितानां संजातानां वाऽशुद्धीनां निराकरणार्थ शुद्धिपत्रकमुपन्यस्तम् ।
द्वितीये परिशिष्टे संपू. हे. प्रत्योविद्यमानाः पाठभेदा उपदर्शिताः। तृतीये परिशिष्टे योगशास्त्रस्य द्वादशसु प्रकाशेसु विद्यमाना मूलश्लोका अकारादिक्रमेण दर्शिताः। चतुर्थे परिशिष्टे योगशास्त्रमूले उद्धृताः पाठा अकारादिक्रमेण दर्शिताः। पञ्चमे परिशिष्टे ग्रन्थान्तरेभ्यो योगशास्त्रस्वोपज्ञवृत्तावुद्धताः पाठा अकारादिक्रमेण दर्शिताः ।
षष्ठे परिशिष्टे आद्यप्रकाशचतुष्टयस्यावचूणिरस्ति । आद्यप्रकाशचतुष्टयस्वोपज्ञवृत्तेरतिविस्तृतत्वात् संक्षेपरुचीनामध्येतृणां कृते स्वोपज्ञवृत्तिसंक्षेपरूपा विभिन्नैः पूर्वर्षिभिविभिन्ना अवचूर्णयो विरचिताः प्राचीनहस्तलिखितग्रन्थभाण्डागारेषूपलभ्यन्ते । तासु एकाऽवचूर्णिः षष्ठे परिशिष्टेऽत्र मुद्रितास्ति । यत् प्रतिद्वयमवलम्ब्यात्रावचूर्णिः मुद्रिता तत्स्वरूपमित्थं ज्ञातव्यम्
For Private & Personal use only
॥३१
॥
Jain Education In
n al
2
w.jainelibrary.org