________________
॥१२०७॥
एवं निशभ्य सम्यक ततश्च निजभुजसमर्जितधनेन । श्री योगशास्त्रवृत्तः पुस्तक लेखयामास ॥ २० ॥ यावद् व्योमसरोवरे विलसतो विश्वोपकारेच्छ्या सन्नक्षत्रसिताम्बुजौधकलिते श्रीराजहंसाविह।।
अज्ञानप्रसरान्धकारविधुरे विश्वे प्रदीपोपमस्तावन्नन्दतु पुस्तकोऽयमनिशं वावच्यमानो बुधैः ।। २१॥ -खं. ॥ 'रणं ॥छ॥ छ । ग्रंथ श्लोक १२००० संपूर्ण योगशास्त्रविवरणमिति ॥ छ ॥ छ । मंगलं महाधीः ।। छ॥ छ॥
भृङ्गीणामिव पक्षपातललितैर्लीलागृहं सुधियां सुच्छायोचिततोऽतिविस्मयकरः श्रीमालवंशोऽस्त्यसौ। उद्यत्पर्वमनोहरे क्षितिधरप्राप्तप्रतिष्ठोदये यत्रच्छत्रपरंपरा ननु परा दृश्यन्त एवानिशम् ॥१॥ आसीद्वंशे वरगुणगणे तत्र मुक्तानुकारी कान्त्युल्लासैनिरुपमतमः साधुवृत्तानुसारी। शुद्धध्यानोपचितसुकृतो देवपूजादिनिष्ठः श्रेष्ठी श्रेष्ठः सुनयविनयः सामदेवो गरिष्ठः ॥२॥ पासिलाख्यः सुतस्तस्मादत्यद्भतसुवैभवात्। सुमनोवर्गमुख्योऽभूज्जयन्त इव वासवात् ॥ ३॥ अगण्यपुण्यलावण्या तस्य पूनाविनामिका। शीतेव रामचन्द्रस्य जाता पत्नी पतिव्रता॥४॥ तौ सर्वदेव-सामाख्यौ तत्कुलव्योममण्डनौ। जज्ञाते ज्ञातमाहात्म्यौ चन्द्रार्काविव विश्रुतौ ॥५॥ एतयोः सोहिणिर्भग्नी भग्नकन्दर्पशासना। जिनशासनधरा जज्ञे सज्ञानाम्भोजदीर्घिका ॥ ६॥ श्रेष्ठिनः सर्वदेवस्य पार्श्वनागः सुतोऽजनि । लक्ष्मीकुक्षिभवा शान्ता तस्य थामिणिरात्मजा ॥ ७॥ जाते सधर्मचारिण्यौ धर्मकर्मातिकर्मठे। साभाकस्य सदा भक्ते वीरी-वयजसंज्ञिते ॥८॥ वीरीकायाः सुते जाते जातिश्लाघ्ये शमान्विते। शीता-जास्यौ जिनाधीशधर्माराधनतत्परे ॥९॥
॥१२०७॥
Jain Education
For Private & Personal Use Only
www.jainelibrary.org