________________
| तादृशं लिखितं मया। यदि शुद्धमशुद्ध वा मम दोषो न दीयते ॥ शिवमस्तु सर्वजगतः परि(र)हितनिरता भवन्तु भूतगणाः। दे(दो)घाः प्रयान्तु नाशं सर्वत्र सुखीभवतु लोकः ।। संवत् १२९२ वर्षे पोषसु २ गुरौ। अयेह श्रीदर्भोय्यां ।।-हे. ॥ __ 'रणं ।। छ । ग्रंथ १३५ ॥ छ । संपूर्ण च योगशास्त्रविवरणमिति ॥छ ॥ अष्टप्रकाशेषु १३०० एवं द्वादशप्रकाशः ग्रंथ १२००० ॥ छ॥
"अस्तीह श्रेष्ठपर्वप्रचयपरिचितः क्ष्माभृदाप्तप्रतिष्ठः सच्छायश्चारुवर्णः सकलसरलतालंकृतः शस्तवृत्तः। पल्लीवालाख्यवंशो जगति सुविदितस्तत्र मुक्तेव साधुः साधुव्रातप्रणन्ता वरहुडिरिति सत्ख्यातिमान् नेमडोऽभूत् ॥१॥ तस्योञ्चैस्तनया विशुद्धविनयास्तत्रादिमो राहडो जज्ञेऽतः सहदेव इत्यभिधया लब्धप्रसिद्धिर्जने । उत्पन्नो जयदेव इत्यवहितस्वान्तः सुधर्म ततस्तत्राद्यस्य सदा प्रिया प्रियतमा लक्ष्मीस्तथा नाइकिः ॥२॥ आद्याया जिनचन्द्र इत्यनुदिनं सद्धर्मकर्मोद्यतः पुत्रश्चाहिणिसंज्ञिता सहचरी तस्य त्वमी सूनवः । ज्येष्ठोऽभूत् किल देवचन्द्र इति यो द्रव्यं व्ययित्वा निजं सत्तीर्थेषु शिवाय संघपतिरित्याख्यां सुधीलब्धवान् ॥ ३॥ नामंधराख्योऽथ महाधराख्योऽतो वीरधवलाभिध-भीमदेवौ ।
पुत्री तथा धाहिणीनामिकाऽभूत् सर्वेऽपि जैनांहिसरोजभंगाः ॥ ४॥ श्री देवभद्रगणिपादसरोरुहालेभक्त्याऽऽनमद्विजयचन्द्रमुनीश्वरस्य ।
देवेन्द्रसूरिसुगुरोः पदपद्ममूले तत्रान्तिमौ जगृहतुर्यतितां शिवोत्कौ ॥५॥ नाइकेस्तु सुता जातास्तत्र ज्येष्ठो धनेश्वरः। खेतूनाम्नी प्रिया तस्य अरिसिंहादयः सुताः ॥ ६॥ द्वैतीयीकः सुसाधुश्रुतवचनसुधास्वादनातृप्तचित्तः श्रीमज्जैनेन्द्रबिम्ब-प्रवरजिनगृह-प्रोल्लसत्पुस्तकादौ ।
॥ १२०५ ॥
Jain Education
|www.jainelibrary.org
For Private & Personal Use Only
ional