________________
। १२०३॥
इदानीं श्रुताम्भोधेरधिगमादिति यन्मुखे प्रतिज्ञातं तन्निर्वहणेऽनूयोपसंहरति
या शास्त्रात् सुगुरोर्मुखादनुभवाचाज्ञायि किञ्चित् क्वचित् ,
योगस्योपनिषद्विवेकिपरिपञ्चेतश्चमत्कारिणी । श्रीचौलुक्यकुमारपालनृपतेरत्यर्थमभ्यर्थना
दाचार्येण निवेशिता पथि गिरां श्रीहेमचन्द्रेण सा ॥ ५५॥ या योगस्योपनिषद् रहस्यमज्ञायि ज्ञाता । कुतः ? शास्त्रात् द्वादशाङ्गादागमात् , सुगुरोः सदागमव्याख्यातुः मुखात् साक्षादुपदेशात् , अनुभवाच्च स्वसंवेदनरूपात् । किश्चिदिति स्वमज्ञानुसारेण । क्वचिदिति एकत्र सर्वस्य ज्ञातुमशक्यत्वात् प्रदेशभेदे वचन। उपनिषदमेव विशिनाष्टि--विवेकिनां योगरुचीनां या परिषत् सभा, तस्या यचेतः तच्चमत्करोतीत्येवंशीला। सा योगस्योपनिषत् , श्रीचौलुक्यो यः कुमारपालनृपतिः तस्यात्यर्थमभ्यर्थनया, स हि योगोपासनप्रियो दृष्टयोगशास्त्रान्तरश्च इति स पूर्वेभ्यो योगशास्त्रेभ्यो विलक्षणं योगशास्त्रं शुश्रूषमाणोऽत्यर्थमभ्यर्थितवान् , ततस्तदभ्यर्थनतो वचनस्यागोचरामपि उपनिषदं गिरां पथि निवेशितवान् आचार्यश्री हेमचन्द्रः। इति शुभम् ।
HORSHARISHCHICHCHHEIGHBHRIHSHRISHCHCHAHEERRHETHERE
॥१२०३ ॥
१ तन्निर्वहेणानूद्यो-शां. ॥ : २ गोचरोपि उपनिषत्-खं. । गोचरापि उपनिषत्-शां. संपू.॥
Jain Education in
For Private & Personal use only
Fww.jainelibrary.org