SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्तिविभूषितं योगशास्त्रम् ॥ १२०२ ॥ Jain Education Inte ****** हन्तात्मानमपि प्रसादय मनाग् येनाssसतां संपदः, " साम्राज्यं परमेऽपि तेजसि तव प्राज्यं समुज्जृम्भते ॥ ५४ ॥ तांस्तान् उच्च-नीचभेदेन बहुप्रकारान् परान् आत्मव्यतिरिक्तान्, किमपरम् ? परमेश्वरं परमात्मानमप्यभिव्याप्य प्रसादं नयन् अनुग्रहपरान् कुर्वन् कैः १ तैस्तैर्भावैरभिप्रायैर्धन- यशो-विद्या-राज्य-स्वर्गाद्यर्थमार्थनारूपै रोग-दारिद्र्यक्षुद्रोपद्रवाद्यनर्थपरिहारेच्छारूपैव हेतुभूतैः, किं कुतो हेतोः, हे आत्मन् ! आयस्यसि आयासमनुभवसि ? तत्तदुपायमूढेत्यात्मनो विशेषणं, ते च ते उपायन-सेवा-दान-पूजादय उपायास्तेषु मूँढ ! ' केनोपायेनायमयं च परः प्रसादनीयः ' इत्यत्र भ्रान्तः (न्त) !, भगवन्निति भाविप्रसादयुक्ततया आत्मनः पूज्यत्वमाह । हन्तेति प्रत्यक्षीकृतस्यात्मनः संबोधनम् । स्वैमपि प्रसादय रजस्तमोमलापनयनेन प्रसादवन्तं कुरु । मनागिति क्षणमात्रम्, आस्तां चिरकालम् । येनात्मप्रसादनेन, आसतामन्याः संपदोऽर्थ प्राप्त्यत्यनर्थपरिहाररूपाः, यावत् परमेऽपि तेजसि परमज्योतिरूपेऽपि प्रकाशे साम्राज्यं परमाधिपत्यं प्राज्यं प्रचुरं तव समुज्जृम्भते आविर्भवति । अयमर्थः--निखिलजगत्प्रसादनप्रयासमन्तरेणापि आत्मप्रसादनमात्रेण ईषत्करा परमैश्वर्यसंपदिति वृथाऽन्यः सकलः प्रयासः । तस्यां च साम्राज्यसंपदि सुलभ उन्मनीभाव इति ॥ ५४ ॥ १ कै कैस्तैस्तै' हे ॥ २ द्यर्थनारूपै - शां. ॥ २ आयास्यति संपू. ॥ ६ प्रसादेन संपू. ॥ For Private & Personal Use Only ४ मूढः - हे ॥ ५ स्वमपि नास्ति शां. ॥ adheendide द्वादशः प्रकाशः | श्लोकः ५४ ॥ १२०२ ॥ 5 अनुभवसिद्धस्य अमनस्क योगस्य वर्णनम् 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy