SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ ॥ ११९५॥ मनोविजये विधिमार्यात्रयेणाह-- औदासीन्यनिमग्नः प्रयत्नपरिवर्जितः सततमात्मा । भावितपरमानन्दः क्वचिदपि न मनो नियोजयति ॥ ३३ ॥ करणानि नाधितिष्ठत्युपेक्षितं चित्तमात्मना जातु । ग्राह्ये ततो निजनिजे करणान्यपि न प्रवर्तन्ते ॥ ३४॥ नात्मा प्रेरयति मनो न मनः प्रेरयति यहि करणानि । उभयभ्रष्टं तर्हि स्वयमेव विनाशमाप्नोति ॥ ३५॥ स्पष्टाः ॥ ३३-३५॥ मनोविजयस्य फलमाह-- नष्टे मनसि समन्तात् सकले विलयं च सर्वतो याते । निष्कलमुदति तत्त्वं निर्वातस्थायिदीप इव ॥ ३६॥ नष्टे भस्मच्छन्नाग्निवत् समन्ततस्तिरोहिते मनसि । तथा सह कलाभिश्चिन्ता-स्मृत्यादिरूपाभिर्वर्तते यत् तत् सकलम् , तस्मिन् जलप्रवाहप्लावितवह्निवद् विलयं क्षयमुपगते सति तत्त्वमात्मज्ञानरूपं निष्कलं कर्मकलाविनिर्मुक्तमुदेति ॥३६॥ १ तथा नास्ति शां.॥ ॥११९५॥ Jain Education In n al For Private & Personal Use Only Seww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy