________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
द्वादशः प्रकाश श्लोकाः२९
३०-३१-३२ का ॥ ११९४॥
॥११९४॥
KHEHEREHEACHISHBHEHRIDHHOREITECHCHCHHEHOREHERCHOICE
यथा मनः स्थिरं भवति तथाऽऽर्याद्वयेनाह--
यहि यथा यत्र यतः स्थिरीभवति योगिनश्चलं चेतः । तर्हि तथा तत्र ततः कथञ्चिदपि चालयेन्नैव ॥ २९ ॥ अनया युक्त्याऽभ्यासं विदधानस्यातिलोलमपि चेतः।
अङ्गल्यग्रस्थापितदण्ड इव स्थैर्यमाश्रयति ॥३०॥ स्पष्टे ॥ २९-३०॥ इन्द्रियजयविधिमार्याद्वयेनाह--
निःसृत्यादौ दृष्टिः संलीना यत्र कुत्रचित् स्थाने । तत्रासाद्य स्थैर्य शनैः शनैर्विलयमाप्नोति ॥ ३१ ॥ सर्वत्रापि प्रसृता प्रत्यग्भूता शनैः शनैदृष्टिः ।
परतत्त्वामलमुकुरे निरीक्षते ह्यात्मनाऽऽत्मानम् ॥ ३२॥ स्पष्टे ॥ ३१-३२॥ १०मायाति-खं.॥
अनुभवसिद्धस्य अमनस्क
योगस्य
वर्णनम्
Jain Education in
For Private & Personal use only
www.jainelibrary.org