________________
॥११९३॥
EIGHEIGHBHISHERSICHROHORIGISTERMERMIRRIGHCHEHOREHSIDHI
अथ कथमिन्द्रियप्रसरो न प्रतिषिध्यते ? इत्याह--
गृह्णन्तु ग्राह्याणि स्वानि स्वानीन्द्रियाणि नो रुन्ध्यात् ।
न खलु प्रवर्तयेद्वा प्रकाशते तत्त्वमचिरेण ॥ २६ ॥ स्पेष्टा। उक्तं चास्माभिर्वीतरागस्तोत्रे--
" संयतानि न चाक्षाणि नैवोच्छ्रङ्खलितानि च ।
इति सम्यक् प्रतिपदा त्वयेन्द्रियजयः कृतः॥१॥" [वीतराग० १४।२] २६ ॥ मनोजयमप्यकृच्छ्रप्राप्यमार्याद्वयेनाह--
चेतोऽपि यत्र यत्र प्रवर्तते नो ततस्ततो वार्यम् । अधिकीभवति हि वारितमवारितं शान्तिमुपयाति ॥ २७॥ मत्तो हस्ती यत्नानिवार्यमाणोऽधिकीभवति यद्वत् ।
अनिवारितस्तु कामान् लब्ध्वा शाम्यति मनस्तद्वत् ॥ २८ ॥ स्पष्टे ।। २७-२८॥ १ गृहणन्ति-मु.। शां. खं. (१)॥ २ स्पष्टः-मु. । स्पष्टं-खं.॥ ३ स्पष्टः-शां. । स्पष्टी-खं । स्पष्टा:-संपू.॥
DISHEHEROINCHEHCHDINDICICISHEHREMCHEHENSHCHCHCHECISHEHEK
Jain Education
For Private & Personal Use Only
|www.jainelibrary.org