________________
एतच्च सुज्ञानमेवेत्याह
जन्मान्तरसंस्कारात् स्वयमेव किल प्रकाशते तत्त्वम् ।
सुप्तोत्थितस्य पूर्वप्रत्ययवनिरुपदेशमपि ॥ १३ ॥ येन जन्मान्तरे आत्मज्ञानमभ्यस्तं तस्य सुप्तप्रबुद्धस्य पूर्वार्थप्रत्यय इवात्मज्ञानं भवति ॥ १३ ॥ इतरस्य तु---
अथवा गुरुप्रसादादिहेव तत्त्वं समुन्मिषति नूनम् ।
गुरुचरणोपास्तिकृतः प्रशमजुषः शुद्धचित्तस्य ॥ १४ ॥ इहैव इहजन्मन्येव जन्मान्तरसंस्कारं विनापीत्यर्थः ॥ १४ ॥ उभयत्रापि गुरुमुखप्रेक्षित्वमनिवार्यमेवेत्याह--
तत्र प्रथमे तत्त्वज्ञाने संवादको गुरुर्भवति ।
दर्शयिता त्वपरस्मिन् गुरुमेव सदा भजेत् तस्मात् ॥ १५॥ प्रथमे जन्मान्तराभ्यस्ते तत्त्वज्ञाने । अपरस्मिन्निति गुरूपदर्शिते तत्त्वज्ञाने ॥ १५ ॥
MEHEHEHCHEHEHEREHEMEHENEVEREHSIDHHHHHHHEInevever
॥ १९८९॥
Jain Education Inte
rnal
For Private & Personal Use Only
lw.jainelibrary.org