________________
स्वोपज्ञवृत्ति. विभूषितं योगशास्त्रम्
।। ११८६ ।।
Jain Education I
स्थिरत्वात् सानन्दं स्थिरसानन्दं श्लिष्टमुच्यते । अतिनिश्चलं परमानन्दयुक्तं च सुलीनम् । एतच्च द्वयमपि तन्मात्रकमेव चित्तमात्रकमेव विषयं गृह्णाति, नं तु बाह्यम् ॥ ४ ॥
ततश्व-
एवं क्रमशोऽभ्यासावेशाद् ध्यानं भजेन्निरालम्बम् । समरसभावं यातः परमानन्दं ततोऽनुभवेत् ॥ ५ ॥
क्रमशोऽभ्यासावेशादिति विक्षिप्ताच्चेतसः स्वाभाविकाद्यातायातं चित्तमभ्यस्येत्, ततो विश्लिष्टम्, ततोऽपि च सुलीनम् एवं पुनः पुनरभ्यासान्निरालम्बं ध्यानं भवेत् । ततः समरसभावप्राप्तेः परमानन्दमनुभवति ।। ५ । समरसभावप्राप्तिर्यथा भवति तथाऽऽह-
बाह्यात्मानमपास्य प्रसत्तिभाजान्तरात्मना योगी । सततं परमात्मानं विचिन्तयेत्तन्मयत्वाय ॥ ६ ॥
स्पष्टी ॥ ६ ॥
१ मात्रमेव संपू. ॥ २ ततोऽपि विश्लिष्टम् - मु. शां. ॥ ४ स्पष्टः- शां. ॥
" अतः प्रागेव निश्श्रेयः सम्यगात्मा मुमुक्षुभिः । अशेषपरपर्यायकल्पनाजालवर्जितः ॥ १५९६ ॥ तथाहित्रिप्रकारः स भूतेषु सर्वेष्वात्मा व्यवस्थितः । बहिरन्तः परश्चेति विकल्पैर्वक्ष्यमाणकैः १५९७ ॥ आत्मबुद्धिः शरीरादौ यस्य स्यादात्मविभ्रमात् । बहिरात्मा स विज्ञेयो मोहनिद्रास्तचेतनः ॥ १५१८ ॥ 1 तथाहि PMQY विना नास्ति ॥
For Private & Personal Use Only
द्वादशः
प्रकाशः
श्लोकौ
५-६
॥ ११८६ ॥
5
अनुभवसिद्धस्य
अमनस्क
योगस्य
वर्णनम्
10
www.jainelibrary.org