________________
॥। ११८५ ॥
Jain Education I
1eeeeeeee
अथोत्तमपदवीमारोढुं चित्तस्य चातुर्विध्यमाह---
donal
इह विक्षिप्तं यातायातं श्लिष्टं तथा सुलीनं च । चेतश्चतुःप्रकारं तज्ज्ञचमत्कारकारि भवेत् ॥ २ ॥
इह योगाभ्यासप्रक्रमे चत्वारि चित्तानि भवन्ति, तद्यथा - विक्षिप्तम्, यातायातम्, श्लिष्टम्, सुलीनं चेति ॥ २ ॥ क्रमेण व्याचष्टे --
विक्षिप्तं चमिष्टं यातायातं च किमपि सानन्दम् ।
प्रथमाभ्यासे द्वयमपि विकल्पविषयग्रहं तत् स्यात् ॥ ३ ॥
विक्षिप्तं चलमितस्ततो भ्राम्यदिति यावत् । यातं च बहिः आयातं चान्तरिति यातायातम्, तत् किमपि सानन्दम्, स्वात्मन्यभिनिवेशात् । तच्च चेतोद्वयमपि विक्षिप्तं यातायातं च प्रथमाभ्यासवर्तिनां भवति । विकल्पेन चे बाह्यार्थग्रह उभयस्मिन् || ३ || तथा -
श्लिष्टं स्थिरसानन्दं सुलीनमतिनिश्चलं परानन्दम् । तन्मात्रकविषयग्रहमुभयमपि बुधैस्तदाम्नातम् ॥ ४ ॥
१ च नास्ति शां. ॥
For Private & Personal Use Only
adeeeeeeeeeeeeeee
5
10
।। ११८५ ।।
www.jainelibrary.org