SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ स्वोपवृत्तिविभूषितं योगशास्त्रम् द्वादशः प्रकाशः श्लोकः १ ॥ ११८४॥ ४३ इन्द्रियग्राहनिर्मुक्ते निर्वाते निर्मलामृते। अमनस्कहदे स्नातः परामृतमुपाश्नुते ॥ ९१ ॥....... चतुर्विधा मनोऽवस्था विज्ञातव्या मनीषिभिः। विश्लिष्टं च गतायातं सुश्लिष्टं च सुलीनकम् ॥ ९४ ॥ २ विश्लिष्टं तामसं प्रोक्तं राजसं च गतागतम्। सुश्लिष्टं सात्त्विकं प्रोक्तं सुलीनं गुणवर्जितम् ॥ ९५॥ ३ विश्लिष्टं च गतायातं विकल्पविषयग्रहम् । सुश्लिष्टं च सुलीनं च विकल्पविषनाशनम् ॥ ९६ ॥ ५ ततोऽभ्यासनियोगेन निरालम्बो भवेद यदि। तदा सरिसभूतानि (समरसभूतः ?) परमानन्द एव सः॥९७ ॥ ३ अभ्यस्यतो मनः पूर्व विश्लिष्टं चलमुच्यते। ततश्च निश्चलं किञ्चित् सानन्दं च गतागतम् ॥ ९८ ॥ ४ सानन्दं निश्चलं चेतः ततः सुश्लिष्टमुच्यते। अतीव निश्चलीभूतं सानन्दं च सुलीनकम् ।। ९९ ॥ बभूव तस्य कर्माणि पापपुण्यस्य संक्षयः। प्रयान्ति नैव लिम्पन्ति क्रियमाणानि सानुना ॥ १० ॥ उत्तुङ्गः सहजानन्दः सदाभ्यासरतः स्वयम्। सर्वसंकल्पसंत्यक्तः स विद्वान् कर्म संत्यजेत् ॥ १०१ ॥ न दिवा जागरितव्यं स्वपितव्यं नैव रात्रिभागेऽपि। रात्रावह्नि च सहजे स्वपितव्यं योगिना नित्यम् ॥ १०९ ॥ निर्मनःसहजस्थिते पुरुषे न दिवारात्रिशब्दोऽस्ति । जागरणशयनयर्जितचिन्मात्रानन्द संस्थानात् ॥११॥ ॐकारप्रमुखैर्विचित्रकरणः प्रायस्य वा यो जपः। तेजश्चिन्तनमन्तरालकमले शून्याम्बरालम्बनम् । त्यक्त्वा सर्वमिदं करो नरवर(?)मत्वा मनोविभ्रमं। देहान्ते तदवाच्यमेकममनस्कत्वं बुधैः सेव्यताम् ॥ १११ ।। १३ अन्यजन्मकृताभ्यासात् स्वयं तत्त्वं प्रकाशते। सुप्तोत्थितः प्रत्यूषे ह्यपदेशात् विना प्रबुध्यते ॥ ११२।। १४ शुद्धाभ्यासस्य शान्तस्य सदेव गुरुसेवया। गुरुप्रसादात् तत्रैव तत्त्वज्ञानं प्रकाशते ॥ ११३ ॥ इति गोरक्षनाथविरचिते अमनस्कयोगे द्वितीये खण्डे । अनुभवसिद्धस्य अमनस्कयोगस्य वर्णनम् 10 Jain Education Intelope For Private & Personal Use Only $2 w .jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy