SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ १९८३॥ HOTOHEROTECHRISHCHHEE RENCHEIGHEERRORIES २९ यथा निरंकुशो हस्ती कामान् प्राप्य निवर्तते। अवारितं मनस्तद्वत् स्वयमेव विलीयते ॥ ७३ ॥ निवार्यमाणं यत्नेन तत् कर्तुं नैव शक्यते । न तिष्ठति क्षणेनैव मारुतस्य वशोदयात् ।। ७४ ॥ दुनिर्वायं मनस्तद्वद यावत् तत्त्वं न विन्दति । विदिते तु परे तत्त्वे मनो नीस्तम्भकाकवत् ॥ ७५ ॥ यथा तुलां तुलाधारश्चंचलां कुरुते स्थिराम्। याने सौख्ये सदाभ्यासान्मनोवृत्तिस्तथात्मनि ॥ ७६ ॥ निष्पन्नाखिलभावशून्यनिसृजः स्वान्तःस्थितिस्तत्क्षणात् निश्चेष्टश्लथपाणिपादकरणग्रामो विकारोज्झितः। निर्मूलप्रविनष्टमारुततया निर्जीवकाष्ठोपमो निर्वातस्थितदीपवत् सहजवान् यस्याः स्थितेलक्ष्यते ॥ ७ ॥ मनोदृश्यमिदं सर्वं यत् किञ्चित् सचराचरम्। मनसोऽप्युन्मनीभावेऽद्वैतभावः प्रकल्पते ॥ ८॥ ३७ जायमानामनस्कस्य युदासीनस्य तिष्ठतः। मृदुत्वं च परत्वं (लघुत्वं ? ) च शरीरस्याथ जायते ॥ ८१ ॥ अमनस्के क्षणात् क्षीण कामक्रोधादि बन्धनम्। नश्यति करणस्तम्भं देहगेहं श्लथं भवेत् ॥ ८२ ॥ ३८ सहजेनामनस्केन मनःशल्ये नियोजिते। आतपत्रमिवास्तम्भं शरीरं शिथिलायते ॥ ८३॥ ३९ अमनस्कखनित्रेण समूलोन्मूलने सति। अन्तःकरणशल्ये तु सुखी संजायते मुनिः ॥ ८४ ॥ ४० कदलीव महामाया समनस्केन्द्रिये सदा। अमनस्कं फलं दत्त्वा सर्वथैव विनश्यति ॥८५॥ ४१ इन्द्रियग्राहपदयोः निश्वासोच्छ्रासपक्षयोः। संक्षीणयोर्मनःपक्षी स्थिरसत्तोऽवसीदति ॥ ८६ ॥ श्वाससूत्रशतोपेतमिन्द्रियाकुलसंकुलम् । बोटयित्वा मनोजालं मीनवज्जायते सुखी ॥ ८७ ॥ प्रशान्तेन्द्रियपादातो बुद्धिशक्तिसमन्वितः। वायुयानयुतच्छित्त्वा मनःशत्रु सुखीभवेत् ॥ ८८ ॥ गुणत्रयमयीं रज्जु सुदृढामात्मबन्धनीम्। अमनस्कनुरेणैव च्छित्त्वा मोक्षमवाप्नुयात् ।। ८९ ॥ यथा संहियते सर्वमस्तं गच्छति भास्करे। करजालं तथा सर्वममनस्के विलीयते ॥९० ॥ REACHEHEREMIRICISHEHEREMIERRIERRHERERIEREHEREHEHEKSHETCHE १९८३॥ Jain Education Int For Private & Personal Use Only 92ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy