________________
स्वोपज्ञ
वृत्ति
द्वादशः प्रकाशः श्लोकः२
विभूषितं योगशास्त्रम्
॥ १९८२॥
१८ वाङ्मनःकायसंक्षोभं प्रयत्नेन विवर्जयेत्। रसभाण्डमिवात्मानं सुनिश्चलं धारयेभित्यम् ॥ ५७ ॥ २० यावत् प्रयत्नलेशोऽस्ति यावत् सङ्कल्पकामना। अहं त्वमिति सम्प्राप्तिस्तावत् तत्त्वस्य का कथा ॥ ५८ ॥
औदासीन्यामृतौधेन वर्तमानेन योगिनाम् । उन्मूलितमनोमूलो जगद्वक्षः पतिष्यति ॥ ५९॥ ४६-४७ सदा जाग्रदवस्थायां स्वप्नवद् योऽवतिष्ठते। निःश्वासोच्छ्वासहीनस्तु निश्चितं मुक्त एव सः ॥ ६ ॥ ४८ स्वप्नजागरणोपेता जन्तवो जगतीं गताः। योगिनस्तत्वसम्पन्ना न जाग्रति न शेरते ॥ ६१॥ ४९ स्वप्ने चिदंशशून्यत्वं जागरे विषयग्रहः। स्वप्नजागरणातीतमतस्तत्वं विदुर्बुधाः ॥ ६२ ॥
भावाभावद्वयातीतं स्वप्नजागरणातिगम्। मृत्युजीवननिमुक्तं तत्त्वं तत्त्वविदो विदुः ॥ ६३ ॥ निद्रादी जागरस्यान्ते यो भाव उपपद्यते। तं भावं भावयेद् योगी निश्चितं मुक्त एव सः ॥ ६४ ॥ यथा सुप्तोत्थितः कश्चिद् विषयान् प्रतिपद्यते । जागत्यैव ततो योगी योगनिद्राक्षणे तथा ॥६५॥
सर्वतो भ(भा?)विता दृष्टिः प्रत्यग्भूता शनैः शनैः। परतत्त्वमनादर्श पश्यत्यात्मानमात्मना ॥ ६६ ॥ _३१ प्रथम निःसृता दृष्टिः संगता यत्र कुत्रचित्। स्थिरीभूता च य(त?)त्रैव विनश्यति शनैः शनैः ।। ६७ ।।
प्रसह्य संकल्पपरम्पराणामुच्छेदने सन्ततसावधानाम्। आलम्बभावादपचीयमाना शनैः शनैः शान्तिमुपैति दृष्टिः॥६८॥
यथा यथा सदाभ्यासान्मनसः स्थिरता भवेत् । वायु-वाक्-काय-दृष्टीनां स्थिरता च तथा तथा ।। ६९ ।। -२४ दृश्यं पश्यति येन सप्रियकरं श्राव्यं तथा शृण्वतः। घ्रातव्यं परिजिघ्रतोऽथ वदतो ध्येयं सदा ध्यायतः ।
स्पर्श च स्पृशतो निरिन्धनशिखाप्रख्यं मनोऽत्र क्रमाद् । अद्वैताख्यपदस्य तत्त्वपदवीं प्राप्तस्य सद्योगिनः।। ७० ॥ २९ यदा यत्र यथा यत्र(तः) स्थिरं भवति मानसम् । तदा तत्र तथा तस्माद् न तु चाल्यं कदाचन ॥ ७१ ॥
यत्र यत्र मनो याति न निवार्य ततस्ततः। अवारितं क्षयं याति वार्यमाणं तु वर्धते ॥ ७२ ।।
अनुभवसिद्धस्य
अमनस्क. | योगस्य वर्णनम्
Jain Education in
anal
For Private & Personal Use Only
Poww.jainelibrary.org