SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ ॥१९८१ ॥ ४५ तत्राप्यसाध्यः पवनस्य नाशः षडङ्गयोगादिनिषेवणेन । मनोविनाशस्तु गुरुप्रसादानिमेषमात्रेण सुसाध्य एव ।। ३० ।। तस्मान्मनोनाशवतोऽमनस्कता यन्नाशतो नश्यति वायुरग्रे । तस्मात् सुबुद्धीन्द्रियदेहनाशादद्वैतबुद्धिः सहजस्थितस्य ॥३१॥ जित्वा वायु विविधकरणैः क्लेशमूलैः कथञ्चित् कृत्वा यत्नं निजतनुगताशेषनाडीप्रचारान् । अश्रद्धयां परपुरगतिं साधयित्वापि नूनं विज्ञानेऽपि व्यसनसुखिनो नास्ति तत्त्वस्य सिद्धिः ॥ ३२ ॥ अभ्यस्तैः किमु दीर्घकालममलाधिप्रदर्दष्करैः प्राणायामशतैरनेककरणैर्दःखात्मकैर्दर्जयः। यस्मिन्नभ्युदिते विनश्यति बली वायुः स्वयं तत्क्षणात् प्राप्त्यै तत् सहज स्वभावमनिशं सेवध्वमेकं गुरुम् ॥ ४३ ॥ गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः। गुरुदेवात् परं नास्ति तस्मात् तं पूजयेत् सदा ॥ ४४ .... गुरुणा दर्शिते तत्त्वे तत्क्षणात् तन्मयो भवेत् । विमुक्तं मन्येतात्मानं मुच्यते नात्र संशयः ॥ ४७ ।। यथा सिद्धरसस्पर्शात् तानं भवति काञ्चनम् । गुरूपदेशश्रवणाच्छिष्यस्तत्त्वमयस्तथा ।। ४८ ॥ १७ तस्मादुपासनात् सम्यक् सहजं प्राप्यते गुरोः। अनायासेन सततमात्माभ्यासरतो भवेत् ॥ ४९ ।। २२ विविक्ते विजने देशे पवित्रेऽतिमनोहरे। समासने सुखासीनः पश्चात् किश्चित् समाश्रयेत् ॥ ५० ॥ सुखस्थापितसर्वाङ्गः सुस्थिरात्मा सुनिश्चलः। बाहुदण्डप्रमाणेन कृतदृष्टिः समभ्यसेत् ॥ ५१ ॥ शिथिलीकृतसर्वाङ्ग आनखाग्रशिखाग्रतः। सबाह्याभ्यन्तरे सर्वचिन्ताचेष्टाविवर्जितः ॥ ५२ ।। यदा भवेदुदासीनस्तदा तत्वं प्रकाशते। स्वयं प्रकाशिते तत्त्वे स्वानन्दस्तत्क्षणाद् भवेत् ॥ ५३॥ आनन्देन च सन्तुष्टः सदाभ्यासरतो भवेत्। सदाभ्यासे स्थिरीभूते न विधिर्नैव च क्रमः ॥ ५४॥ न किश्चिञ्चिन्तयेद् योगी औदासीन्यपरो भवेत् । न किञ्चिच्चिन्तनादेव स्वयं तत्त्वं प्रकाशते ॥ ५५ ।। २१ स्वयं प्रकाशिते तत्त्वे तत्क्षणात् तन्मयो भवेत् । इदं तदिति तद् वक्तुं गुरुणापि न शक्यते ॥५६॥ For Private Personal use only Jain Education Inte Plw.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy