SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ ॥ अथ द्वादशः प्रकाशः ॥ ॥११७९॥ शास्त्रारम्भे यदुक्तं " स्वसंवेदनतश्चापि" [१।४] इति तत्प्रपञ्चयितुं प्रस्तावनामाह श्रुतसिन्धोर्गुरुमुखतो यदधिगतं तदिह दर्शितं सम्यक् । अनुभवसिद्धमिदानी प्रकाश्यते तत्त्वमिदममलम् ॥ १॥ ___ अत्र पूर्वार्धेन वृत्तकीर्तनम् , उत्तरार्धेन तु वर्तिष्यमाणतत्त्वप्रकाशनम् ॥ १ ॥ १ प्रसिद्धन महायोगिना गोरक्षनाथेन 'अमनस्कयोगः' इत्याख्य एको ग्रन्थो विरचितोऽस्ति । स चायं ग्रन्थः पुण्यपत्तनस्थितेन सिद्धसाहित्यसंशोधनप्रकाशनमण्डलेन ["अमरज्योत" सरदार पाटणकर यांचा बंगला, कर्वे रोड पुणे-४, महाराष्ट्र] इत्यतो विक्रमसंवत् २०२४ वर्षे प्रकाशितोऽस्ति । अस्मिन् ग्रन्थे खण्डद्वये शङ्कर-वामदेवयोः संवादरूपेण योगस्वरूपवर्णनं विहितमस्ति । तत्र प्रथमे खण्डे तारकयोगस्य वर्णनम् , ९८ च श्लोकाः। द्वितीये खण्डे तु विशेषतः अमनस्कयोगस्य वर्णनं तत्र च ११३ श्लोकाः। तेषु सन्ति अनेके श्लोकाः यैः सह योगशास्त्रद्वादशप्रकाशस्य कतिपयानां श्लोकानां शब्दतोऽर्थतो वा कथञ्चित् समानत्वं विद्यते । अतस्तादृशा अनोपयोगिनः श्लोका अमनस्कयोगग्रन्थत उद्धत्यात्रोपन्यस्यन्ते । अत्र प्रथमोऽको योगशास्त्रद्वादशप्रकाशश्लोकानाम् , अन्त्यस्त्वङ्कः 'अमनस्कयोगस्य' इति ध्येयम् “कैलासशिखरासीनं सर्वशं सर्वगं शिवम् । वामदेवो मुनिश्रेष्ठः प्रणम्य परिपृच्छति ॥ १ ॥ ॥११७२॥ Jain Education anal For Private & Personal Use Only www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy