________________
।। ११७७ ।।
Jain Education
लाघवं गौरवप्रतिपक्षभूतः परिणामः, तद्योगात् धूमस्येव सिद्धस्योध्वं गतिर्भवति । तथा सङ्गविरहेण तथाविधपरिणामत्वादष्टमृत्तिकाले पविलिप्तजलाधोनिमग्नक्रमापनीतमृत्तिकाले पजलत लमर्यादोर्ध्वगामितथाविधाला बुफलस्येव सिद्धस्योर्ध्वं गतिः, तथा बन्धनस्य कर्मलक्षणस्य विरहादभावात्तथाविधपरिणतेः कोशबन्धनविमुक्तैरण्डफलवत् सिद्धस्योर्ध्वं गतिः ॥ ६० ॥ ततश्च -
सादिकमनन्तमनुपममव्याबाधं स्वभावजं सौख्यम् । प्राप्तः सकेवलज्ञान-दर्शनो मोदते मुक्तः ॥ ६१ ॥
T
"
सहादिना वर्तत इति सादिकम्, संसारे कदाचिदप्यभावात् । नास्यान्तोऽस्तीत्यनन्तम् क्षयाभावात् । सादे: कथमनन्तत्वमिति चेत्, घटादिप्रध्वंसे तथा दर्शनात् घटादिप्रध्वंसो हि सादिः मुद्गरादिव्यापारजन्यत्वात्, अनन्तश्च क्षयाभावात्, तत्क्षयो (तत्क्षये ? ) हि घटस्य पुनरुन्मञ्जनप्रसङ्गात् । अनुपममुपमानस्य कस्यचिदभावात् सांसारिक सुखानां सर्व जीववर्तिनामतीतानामनागतानां वर्तमानानां च सिद्धसुखापेक्षायाऽनन्तभागत्वात् । नास्य व्यावाधाऽस्तीत्यव्याबाधम्, शरीरमनसोराबाधाहेत्वोरभावात् । स्वभावजं स्वभावादात्मस्वरूपमात्राज्जायते, न पुनः कुतश्चित्कारणान्तरात् एवंविधं सुखं प्राप्तः, केवलज्ञानदर्शनाभ्यां युक्तो मुक्तः सन् मोदते परमानन्दवान् भवति । अनेन सुखादिगुण
१ ' तत्क्षयो' इति शां. खं. हे. [ तालपत्र ] प्रतिषु पाठः । संपू. मध्ये पत्रमेकमत्र नास्ति । मु. मध्ये तु ' तत्क्षये हि घटस्य पुनरुन्मज्जनप्रसङ्गः' इति पाठः ॥
For Private & Personal Use Only
10
॥ ११७७ ॥
www.jainelibrary.org